पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः स्वल्पोऽप्युपशमो न जातः । मार्गेणाव्रजत- - एका शकटी वेगादायाता, स चापश्यत्, किन्तु दिनान्तरवत् तदभिमुखतोऽपसतु समीहा नोदैत् । ईवदपि भयं नाभूत् - सर्वं ब्रह्मास्ति । इमामवस्थामवलोक्य माता भयं प्राप्ता, तथा विचारितं यद् बालकः केनापि बलीयसा रोगेण समाक्रान्तः । अकथयत्–“अधुनाऽयं न जीविष्यति ।” ५८ कतिचिद्दिनानन्तरं सर्वत्रैव ब्रह्मभावे किञ्चिद् हासं गते नरेन्द्रेणाव- धारितम्, यदयमेवाद्व तविज्ञानस्याभासः । काशीपुरस्योद्याने श्रीराम कृष्णेन नरेन्द्रोऽद्वैतब्रह्मानुभूतावुन्नभितः । घटनेयमस्माभिरग्रे प्राप्स्यते । अद्वैतज्ञानमिदं स्वायत्तीकृत्यैव विवेकानन्देन व्याहृतम् – “ब्रह्माण- मारभ्य शरीरं, मनः, कीटपरमाणु यावत् सर्वभूतेषु स एव प्रेममयः । हे मित्र ! प्राणाश्च तस्यैव चरणयोरपर्यन्ताम् | त्वदभिमुखमनेक- रूपेषु विराजमानमीश्वरं विहाय त्वया कुत्रासावन्विष्यते । येन जीवेषु प्रेमानुष्ठीयते, तेनैव याथातथ्येनेश्वरः सेव्यते ।” सर्वेषामभ्यन्तरे एतादृशी ब्रह्मचेतना जागरिता भवेदित्येव तदीयजीवनोद्देश्यमभूत् । तेन सर्वेषां ललाटेषु ब्रह्म तिलकमङ्कीकृतम् । 19 नरेन्द्रे समागते तस्मिन्नेव श्रीरामकृष्णो व्यस्ततामगच्छत् । एतद्प्यभवद् यन्नरेन्द्रं दूरादवलोक्यैव आनन्देनोत्फुल्लो भूत्वा “सः न॰ –’ सः न’ – ” इति ब्रुवन्नसौ समाधावतिष्ठत् । श्रीरामकृष्ण- नरेन्द्रयोर्मंध्ये गुप्तसम्बन्धोऽयं सर्वदैव रहस्यपूर्णोऽभूत् । स च ज्योति- र्मण्डलस्य ऋषि नरेन्द्रस्याभ्यन्तरेऽध्यगच्छत् । किन्तु शीघ्रमेवैतस्यां भूमिकायां परिवर्त्तनमदृश्यत । एतादृश एक: समयः समागतोऽभूत् यदैतत् पर्यबुध्यत यत श्रीठाकुरो नरेन्द्रसम्बन्धे बाह्यशा पूर्णतयोदासीन आस्ते । नरेन्द्रनाथो दक्षिणेश्वरे समागतः । परन्तु श्रोठाकुरस्तेन साकमेकामपि वार्ता नाकरोत् । कञ्चित्कालं