युगाचार्य-विवेकानन्दः नन्दमपि यन्त्रमनुष्ठाय श्रीरामकृष्णोऽपि स्वीयां युगवाणीं युगादर्श च संसार सन्निधाने समुपस्थापयाञ्चकार ।.. नरेन्द्रनाथस्य मन ईश्वरमधिगन्तुं व्याकुलीबभूव । स दैनन्दिनं व्यग्रतामगच्छत् । श्रीठाकुरस्य समीपे शीघ्रं शीघ्रमागन्तु प्रवृत्तः । रात्रावपि कदाचिद्दक्षिणेश्वरे तस्थौ । श्रीठाकुरोऽपि हस्तं गृहीत्वा नरेन्द्रमसीममार्गाभिमुखं निनाय ।.. ६० एकदा श्रीठाकुरो नरेन्द्रं पञ्चवट्या विविक्तस्थानमानीय प्रोवाच - "बहूनि दिनानि व्यतीतानि मात्रा मह्यम् अणिमादयो विभूतयः प्रदत्ताः सन्ति । परन्तु मम तासां व्यवहारप्रयोजनं नाभवत् । मातरं विनिवेद्य ता विभूतीस्तुभ्यं दातु' समीहे । मात्रा सूचितं यत् त्वया बहूनि विधेयानि विधातव्यानि सन्ति । यदि ताः शक्तयस्तवाभ्यन्तरे स्युस्तदा यथाप्रयोजनं ताभिस्त्वं कार्य साधयिष्यसि । किं कथयसि ?" श्रीठाकुरो वृथा वार्त्ता न कुरुते इति नरेन्द्रो व्यजानात् । तदलौकिक- शक्तीनामनेके परिचयास्तेनाधिगम्यन्त । अत एवासौ किंचिच्चिन्तितो बभूव | अनन्तरं तेन जिज्ञासितं – “किमेता विभूतय ईश्वराधिगमाय साहाय्यं प्रदास्यन्ति ?” - श्रीरामकृष्णेनोक्तम् – “न, तस्मिन् विषये न कापि सहायता भविष्यति । किंतु ईश्वराधिगम नन्तरं यदा त्वया तदीयं कार्य करिष्यते, तदानीं तास्तवोपकारिण्यो भविष्यन्ति ।” " नरेन्द्रेणोक्तम् –“महाशय, तदा मदर्थ तासामावश्यकता नास्ति । पूर्वमीश्वरस्याधिगमः । विभूतीः प्राध्यापि यदि जीवन- लक्ष्यमेव विस्मरेयम् तदा सर्वनाशः सम्पत्स्यते ।"
नरेन्द्रस्य वचनमाकर्ण्य श्रीठाकुरो नितरां प्रासीदत् । अत्यन्त- मुच्चकोटिंग आधारो नरेन्द्रः - एकेनैव वचनेन अणिमादिविभूतीनां - तेन परित्यागः कृतः । -:८-०:-