युगाचार्य- विवेकानन्दः गाहे यथा रविशशि शेइ सभामाझे वशि, एकान्ते गाहिते चाहे एइ भकतेर चित ।”* नरेन्द्रस्य गानमाकर्ण्य सर्वे चकिताः सन्त उत्तम्थुः । परमसौ. एकस्यानन्तरमेकं गानं श्रावयन् अभूत् । तदीयान्तरिकभावनदी अत्युद्वेलिता । स पुनर्जगौ- । - "पृथ्वीर धुलिते देव मोढेर जनम्” – इत्यादि तद्गानं समाप्य गानान्तरं प्रारभत - "अचलघनगहनगुण गाओ ताँहारि” – इत्यादि । मधुरा स्वरलहरी देशकालभानं प्रवाहयितुं प्रावर्तत । अवकाशे मित्रेणैकेन प्रोक्तम्–“अद्य तु परीक्षा वर्त्तते । यत्र कुत्रापि स्वल्पा त्रुटिरस्ति सा पूरयितव्या । परमहं पश्यामि तव सर्व विपरीतमेव । आनन्देन माद्यन् बोभूयसे । " , नरेन्द्रनाथेन प्रत्युक्तम्–“आं भ्रातः, तदेव विदधे, मस्तिष्कं स्वच्छं करोमि ईषन्मस्तिष्कविश्रामोऽपि दातव्य एव ?” नरेन्द्रनाथ आसोदात्मविश्वासी । अत एवासौ विश्वविजयी बभूव ।
- अर्थात् “हे विश्वपते ! त्वं महत् सिंहासनमारुह्य स्वच्छन्दरचित-विश्वसंगीतं
शृणोषि । धरित्र्या मृत्तिका भूत्वा, इदं च लघुकण्ठमादायाहमपि तवैव द्वार- मुपातिष्ठम्। हे देव, नाहं किञ्चित् समीहे, केवलं दर्शनं याचे। त्वां गानं श्रावयिष्यामि, एतदर्थमागतोऽस्मि । यत्र सूर्याचन्द्रमसौ गायतः, तत्सभामध्ये स्थित्वा अस्य भक्तस्य चित्तम् एकान्ते गातुमिच्छति ।” + “हे देव ! पृथिव्या धूलौ अस्मदीयं जन्मास्ति ।” + “हे चित्त ! तदीया ऊचलघनगहनगुणा गीयन्ताम् ॥” ६२