६५ युगाचार्य-विवेकानन्दः - नरेन्द्रनाथः प्रतिदिनमुपसि भगवन्तं प्रार्थयत; भगवन्नामान्यु- च्चारयन् गृहान्निरगच्छत् । एकदा मात्रा तदाकर्ण्य व्यङ्ग्य वदन्त्या कथितम् – “शान्तो भव बालिश: ! बाल्यादेव त्वं 'भगवान् भगवान्' इति चीत्करोषि, भगवता तु सर्वमनुष्ठितम् !” दुर्भाग्यस्य प्रबलाघातेन भुवनेश्वरीदेव्या ईश्वरभक्तिरपि विचचाल | नरेन्द्रस्य हृदये मातुर्वाक्यं तीक्ष्णो नाराच इव निविविशे। स्तब्धो भवन्नसावशोचत् - 'किं वस्तुतो भगवानस्ति ? किमसौ प्रार्थनां शृणोति ? किमसौ मङ्गलमयः ? यद्येवं तर्हि कथं तस्य राज्ये चैतावदमङ्गलम् ?” महाप्राण-विद्यासागरस्य वार्ता तस्य स्मृतिपथमारूढा । तेन प्रतिपादितम् - "यदि भगवान् दयामयो मङ्गलमयश्च तदा लक्षशो मानवाः कथमन्नाभावेन म्रियन्ते ?” - इदानीं नरेन्द्रनाथचेत ईश्वरं प्रति विद्रोहशोलमभूत् । भगवतोऽस्ति- तायामस्य सन्देहः समुत्पन्नः । गुप्तमनोभावो 'मनस्यन्यद्' 'वचस्यन्यद्' इति व्यवहारं नासौ कर्तु मशक्नोत् । अतोऽनेन प्राकट्येनैव भगवदस्ति- त्वविरुद्धः प्रचारोऽक्रियत | सपद्येव समाचारोऽयं प्रसृतो- नरेन्द्रो नास्तिको बभूव । एतस्य वृत्तान्तस्य सत्यतां परिज्ञातु बहवो जना आलो- चनां कर्तुं मागच्छन् । तेन तेषां सम्मुखे ह्यूम-वेन-मिल-प्रभृतीनां पाश्चात्त्य- दार्शनिकानां मतान्युद्धृत्येश्वरानस्तित्वं प्रमाणितम् । एतदेव न, दण्ड- प्राप्तिभयेनेश्वरे विश्वासानुष्ठानं दुर्बलतामात्रम् - इत्यपि तेनोच्चैः स्वरेण घोषितम् । प्रकाशे सगर्व मसाववोचत्- "ये दुर्भाग्यकवलिताः सन्ति, ते येन केनाप्युपायेन क्षणिकानन्दाधिगमायाधिकारवन्तो विद्यन्ते ।” - नरेन्द्रनाथ बहूनि दिनानि यावद् दक्षिणेश्वरे नागच्छत् । तस्य पितृवियोग-सांसारिकदुरवस्था प्रतिकूलकालादीनां परिज्ञानं श्रीराम- कृष्णस्यासीत् । स च नरेन्द्रस्य कृतेऽतिचिन्तितोऽभवत् । परन्तु नरेन्द्रो नास्तिको जातः, तस्य नैतिक पतनमपि जातम् - अयं संवादो यदा तस्य कर्णगोचरीबभूव, तदा तस्य संवादेऽत्र विश्वासो नाभूत् । एकदा
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/७५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति