युगाचार्य - विवेकानन्दः । तेन श्रीठाकुरः प्रोक्तः – “सर्वमिदमस्ति भवदीयमेव - विषयीभूताऽभवत् कार्यम् । भवतैव मदीयं मानसं परावर्त्तितम् । इदनीं भवतैव मम भ्रातृभगिनीव्यवस्था सम्पादनीया भविष्यति । अन्यथा नाहं भवन्तं परित्यक्ष्यामि ।” ७१ - बहुविधाग्रहानुरोधानन्तरं श्रीठाकुर: प्रोवाच - "अस्तु व्रज, मातरं कथयिष्यामि, येन तत्कृते साधारणान्नवस्त्रन्यूनता कदापि न भविष्यति ।” नरेन्द्रनाथेन 'माता' स्वीकृता- इति श्रीठाकुरस्यापार आनन्दो- ऽभवत् । तदीयमनसो दुश्चिन्ताया एको घनीभूता घनोऽपससारेव । तदिनान्नरेन्द्रनाथस्य नूतनं जीवनमारब्धम् । तेन आद्याशक्तिर्जगज्जननी स्वीकृता, तस्यां च विश्वासः कृतः । सा प्रतीकत: प्रत्यक्षमागता अस्ति । प्रतीकोपासनाया मर्मवाणी तदन्तरे प्रतिध्वनिता बभूव । तद्दिवसत एव तेन भगवतो मातृभावस्यानुभवः प्रथमं कृतः, प्रतिमापि ईश्वरस्य प्रतीकस्वरूपेति तेनाङ्गीकृतम् | हिन्दवः प्रतिमाया अवलम्बनेन श्रीभगवन्तमेव समुपासते । सांसारिकाणि दुःखदारिद्रयादीनि मनुष्येभ्यः कियविशालां शिक्षां प्रयच्छन्ति ! नास्तिकानपि आस्तिकतां प्रापयन्ति । - नरेन्द्रस्य दुश्चिन्ताया अवसानं जातम् । महाकालीमहत्त्वं तेनाव- धारितम् । नासौ केवलं पाषाणप्रतिमामयी, सातु ब्रह्माण्डमाण्डोदरी, चतुर्वर्गदात्री, भुक्तिमुक्तिप्रदायिनी, वराभयप्रदा च विद्यते । मातुर्गुण- गानाय तस्य हृदयं व्याकुलमभूत् । तदानीं काले स मातृसम्बन्धि संगीतं किमपि नाज्ञासीत् । अतोऽसौ श्रीठाकुरमनुरुरोध यद् "भवान् मां मातुर्गानं शिक्षयत्विति ।” श्रीठाकुरः सानन्दकण्ठेनागायत्- " (मार ) मा त्वं हि तारा | तुमि त्रिगुणधारा परात्परा ॥
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/८१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति