युगाचार्य - विवेकानन्दः नरदेहेऽतिष्ठत् तावद्दिनानि आत्मानन्द एव तस्य स्थितिरभूत् । जीवनयात्रापथे सर्वेषामेव घातप्रतिघातानां दुःखदैन्यक्लेशानां तेन निर्विकारचेतसा सहनमनुष्ठितम् । तदीयहृदयप्रशान्तिरीषदपि नाहसत् । ब्रह्मविद आभा तस्याकारे सदैव अङ्किताऽजायत । तदनन्तरं च यदाऽसौ कौपीनधारी संन्यासि परिव्राजकरूप: कदापि वृक्षतले, देवालये, दरिद्रगृहे, राजप्रासादे, ब्राह्मणस्यातिथिरूपेण, अस्पृश्यकुटीरे वा बभ्राम सर्वत्रैव तं महामानवस्वरूपेण लोका अगृहन् । , ८००
श्रीरामकृष्णेन असीमाह्वानमाकर्णितम् | तस्य सर्वत्रैव ब्रह्मदर्शन- मभूत् । स सर्वदैवात्मस्थो बभूव । दैहिकं कष्टं तदीय मजरममरमात्मानं कदापि नास्पृशत् । सहसैव मनो निर्विकल्पे समाधावगच्छत् । मनसो दूरापास्ता एकदा तेनोक्तम् –“लोककल्याणसमीहाऽपि भवति । ```उपदेशः कस्मै दद्याम् । सर्वमेव राममयं पश्यामि ।” ‘सर्व ब्रह्ममयं जगत्' एषैव तस्य सहजाऽवस्था बभूव । अत्रैव यदा मनः किंचिदवतरति, त्यागिनां पार्षदानामाध्यात्मिकजीवनपूर्णता सम्पादन- चेष्टायाः सीमैव नासीत् । स च नानाभावैः शिष्यान् स्वरूपोपलब्धि- मकारयत् । संन्यासिनः शिष्यान संघबद्धान् विधाय स नरेन्द्र कुल- पतिं विधास्यति येनासौ सम्पूर्णेऽपि विश्वेऽस्मिन् तस्य ( श्रीराम- कृष्णस्य ) साम्य-मैत्री-प्रेमविश्वभ्रातृत्व-त्याग तपस्या-सर्वधर्मसमन्वयेश्वर- परायणत्वादीनां वार्त्ता प्रत्येकनरनारीसमीपे प्रापयेत् ।
- देहावसानस्य कतिचिद्दिनेभ्यः प्राक् श्रीठाकुरो नरेन्द्रनाथं पार्श्वमाहूय
प्रावोचत् –“पश्य, तव हस्तेऽहं सर्वान् बालकान् समर्प्य गच्छामि । त्वं सर्वतो बुद्धिमान् शक्तिमानपि । सस्नेहं तान् मेलयित्वा रक्षेः । साधनभजनयोस्ते मनो व्यापारयेयुरित्यस्य व्यवस्था विधेया ।” नरेन्द्रनाथो मौनी तस्थौ । श्रीठाकुरस्येङ्गितं तेनावगतम् । वेदनाया अश्रुभिस्तस्य नयने सम्भृते ।