पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः – श्रीठाकुरस्यासन्नलीलासमाप्तिचिन्ता शिष्यान् व्याकुलचेतसो- कार्षीत् | एकदा स स्वस्यान्तर्धानस्येङ्गितं दददुवाच - "कीर्तनदल- मागच्छत्, अनृत्यद्गायच्च | यथाऽऽगतं तथैव गतमपि । न कोऽपि तत् पर्यचिनोत् ।”... सम्प्रति श्रीठाकुरों नरेन्द्रस्य स्वपार्श्वतो दूरे स्थितिं नैच्छत् । एकान्ते समीपे संस्थाप्य धर्मतत्त्वस्यालोचनां प्राचालयत् । भविष्यत्कर्म- पद्धतयो निरदिश्यन्त । तेन हि नरेन्द्रस्योपरि स्वकीयोऽसमाप्तः कर्म- भार: समर्पितोऽभवत् । एकदा श्रीठाकुरेण कर्गजस्यैकस्मिन् खण्डे लिखितम् – “नरेन्द्रो लोकशिक्षां दास्यति ।” नरेन्द्रायाधिकारपत्र- मिव समर्पितम् । ८१ - ९ नरेन्द्रनाथः कांश्चित्क्षणान् द्वैविध्ये स्थित्वा जगाद - "अह- मेतावत् कर्तुं न शक्ष्यामि ।” श्रीठाकुर: प्रत्युदतरत् – “त्वया अवश्यमेव कर्त्तव्यं भविष्यति ।” - श्रीरामकृष्णदेवेन ग्रीवाग्रा हं नरेन्द्रः सर्वं कार्यं कारितः । अतो नरेन्द्रेण विवेकानन्दरूपेण प्रोक्तम्- "अहमाकाररहिता वाणी भवितु- मिच्छामि" | - स च श्रीरामकृष्णदेवस्य अमूर्त वाणीरूपः– तदीय हस्तयन्त्रस्वरूप आसीत् । नरेन्द्रनाथेनात्मसमर्पणमक्रियत । नरेन्द्रनाथं विश्वासा- विश्वास दुःख वेदनादिविविधसंघातानामभ्यन्तरतो निष्कास्य श्रीराम- कृष्णः स्वहस्तकौशलेन विवेकानन्दरूपं ग्राहितवान् । श्री रामकृष्णस्य प्रेरणयैव विवेकानन्दस्य विश्वपरिक्रमा समभवत् । इयमपि तदिच्छाविरुद्धैव । श्रीठाकुरस्य। मोघेच्छाशक्तियन्त्रस्वरूपो- | Sसावभूत् । नरेन्द्रनाथहृदये या किल विश्वकल्याणसाधनसमीहा सम्बभूव । विवेकानन्द- जागर्तिमभजत, सापि श्रीठाकुरेच्छयैव हेतुना संसारः श्रीरामकृष्णं प्रति ऋणी वर्तते । ६