२ E युगाचार्य-विवेकानन्दः देहत्यागस्य त्रिचतुर्दिनपूर्वमेकदा सन्ध्यासमये श्रीठाकुरेण नरेन्द्रः स्वपार्श्वमाहूतः | गृहे कश्चिदपरो नासीत् । द्वारं पिहितं कृतम् । नरेंद्र- मभ्यर्णमुपवेश्य तस्य नयनयोः स्वीयनेत्रे निबध्य श्रीठाकुर: क्रमशः समाधिस्थोऽभवत् । तस्मिन् काले नरेंद्रेणेदमनुभूतं यत् श्रीठाकुरस्य शरीराद् विद्यदिवैकं ज्योतिर्निर्गत्य तदीयं देहं प्रविशति । क्रमशः सोऽपि समाधिमग्नो जातः । दीर्घकालमसौ तदवस्थायामेवातिष्ठत् । ८२ बाह्यज्ञाने समायाते नरेन्द्रेण विलोकितं यत् श्रीठाकुरस्य नयनाभ्यामा- नन्दाभ्रूणि प्रवहन्ति । सस्नेहं श्रीठाकुरो व्याजहार - "अद्य स्वीयं सर्वस्वं तुभ्यं समर्प्य निष्किचनोऽस्मि संवृत्तः । त्वं शक्त्याऽनया संसारस्यानेकानि कार्याणि सम्पादयिष्यसि । कार्ये सम्पन्ने पुनः प्रत्यागमिष्यसि ।” नरेंद्रोऽपि रुरोद | तस्य मुखादेकापि वार्ता न निरगच्छत । तस्मिन् दिवसे श्रीठाकुरो 'जगद्धिताय' नरेंद्रस्याभ्यन्तरे शक्ति संचारयामास । स च श्रीठाकुरस्य विपुलाध्यात्मिक शक्तेरुत्तराधिकारी बभूव । एकस्य दीपकस्य शिखया अन्यो दीपकः प्रजज्वाल अनंतरं शतशो हृदयेषु शिखाऽसौ प्राज्वलत् । नरेन्द्रस्याभ्यंतरे शक्तिरूपेण गतौ । महति समुद्रे महान् नदः सम्मिलितः । .. श्रीठाकुरोऽनुप्रविष्टः । उभावेकतां महाप्रयाणात् दिनयुगलपूर्व भीषणया रोगयन्त्रणया श्रीरामकृष्णः कातरोऽभवत्। ऐतावदधिकं कष्टमासीद् यद् वाऽणि न निरो शक्यन्ते । दशायामेतस्यां नरेन्द्रेण विचारितं – “साम्प्रतं यद्ययं ब्रूयाद् यत् 'अहमवतारोऽस्मि,' तदैवाहं विश्वासं करिष्यामि ।” आश्चर्यम्, नरेंद्रस्याभ्यन्तरे - चिन्तायामस्यामुदीयमानायामेव नरेन्द्रनाथेन सह श्रीरामकृष्णस्य नेषदपि पृथगबुद्धिरासीत् । आत्मन एकत्वमिव जातम् । एकदा श्रीठाकुरः प्रोवाच – “तव बुद्धिरतिहीना वर्तते, किं त्वमहं च पृथक् स्वः ? अयमप्यहं सोऽम्यहमेवास्मि ।”
पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/९२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति