पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः द्वितीये दिवसे श्रीसारदादेवी विधवावेशधारणाय समुद्यता शरीरात् सर्वाण्याभूषणानि अवातारयत् । हस्तयोः कङ्कणे अवतारयितुमैच्छत् । तदानीमेवाविर्भूय तस्या हस्तौ निपीड्य च श्रीठाकुरणोक्तम्– “कङ्कणे नावतारणीये । अहं तु अत्रैवास्मि । इतो गृहात् तत्र गृहे गमन- मेव ।” तेनान्यदपि कथितम् – “त्वं जगतो महालक्ष्मीर्वर्त्तसे । लक्ष्म्या अलङ्काररहितत्वेन संसारे दुःखदारिद्रयसीमैव न स्यात् ।” श्रीसारदादेव्या जीवनस्यान्तिमदिनं यावत् ते सुवर्णकङ्कणे हस्त- योर्धारिते बभूवतुः । अचिन्त्यरूपेण श्रीठाकुरस्य दर्शनमधिगत्य तदीयमुखवचन-विषयं निशम्य च सर्वेऽवागच्छन् यद् यथार्थतः श्रीठाकुरो न ममार । स च केवलं शरीरं परित्यज्यान्तदधौ, जीवितस्वरूपेण सूक्ष्मदेहे चैतन्यधनो विराजते । श्रीसारदादेव्या निर्देशन ततः प्रभृति श्रीठाकुरस्य समर्चादीनां प्रवर्तनमभूत् । स्थूलदेहनिवासकाले यथा तस्य सपर्या समपाद्यत, तथैव सेवा-पूजाभोगादीनां नियमेन सम्पादनमभवत् । भक्ता: श्रीठाकुरस्य देहावशेषपूर्ण घटं केन्द्रीकृत्य काशीपुरोद्यान एव सप्तदिनान्यतिष्ठन् । श्रीश्रीमाता सारदादेवी चापि तत्रैव तस्थौ । सप्ताहानन्तरं भवनस्य भाटकावधेः समाप्तौ श्रीमाता बागबाजारस्थबलरामबसुगृहे समाजगाम | श्रीठाकुरस्य व्यवहृतवस्तूनि भस्मास्थिपूर्णघटेन साकं बलरामभवन एव स्थानान्तरितान्यक्रियन्त ।...