पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१०१

पुटमेतत् सुपुष्टितम्
( ९९ )
पञ्चमः सर्गः ।

स्युक्तप्रकारामुदारामौदार्ययुक्तामपि गां वाचम् । “मनो नियोगक्रिययोत्सुकं मे" (५। ११) इत्येवंरूपाम् ॥ “स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूतले । लक्ष्यदृष्टया स्त्रियां पुंसि गौः" इत्यमरः ॥ निशम्य श्रुत्वा वरतन्तुशिष्यः कौत्सः स्वार्थोपपत्तिं स्वकार्यसिद्धिं प्रति दुर्बलाशः सन्मृण्मयपात्रदर्शनाच्छिथिलमनोरथः संस्तं रघुमिति वक्ष्यमाणप्रकारेणावोचत् ॥

  सर्वत्र नो वार्त्तमवेहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् ।
  सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा॥१३॥

 सर्वत्रेति ॥ हे राजन्, त्वं सर्वत्र नोऽस्माकं वार्त्तं स्वास्थ्यमवेहि जानीहि "वार्त्तं वल्गुन्यरोगे च" इत्यमरः ॥ “वार्त्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम्" इति यादवः ॥ न चैतदाश्चर्यमित्याह-नाथ इति ॥ त्वयि नाथ ईश्वरे सति प्रजानामशुभं दुःखं कुतः ॥ तथाहि । अर्थान्तरं न्यस्यति-सूर्य इत्यादिना ॥ सूर्ये तपति प्रकाशमाने सति तमिस्रा तमस्ततिः ॥ " तमिस्रं तिमिरं रोगे तमिस्रा तु तमस्ततौ । कृष्णपक्षनिशायां च" इति विश्वः ॥ "तमिस्रम्” इनि पाठे तमिस्रं तु तिमिरम् । “तमिस्रं तिमिरं तमः” इत्यमरः ॥ लोकस्य जनस्य ॥ भुवने जने" इत्यमरः ॥ दृष्टेरावरणाय कथं कल्पेत । दृष्टिमावरितुं नालमित्यर्थः॥ कृपेरलमर्थत्वात्तद्योगे “ नमःस्वस्ति-" इत्यादिना चतुर्थी ॥ "अलमिति पर्यात्यर्थग्रहणम्” इति भगवान्भाष्यकारः ॥ कल्पेत संपद्येतेत्यर्थः । कृपि संपद्यमाने चतुर्थीति वक्तव्यात् ॥

 तवार्हत:-" (५ । ११) इत्यादिनोक्तं यत्तन्न चित्रमिसाह-

  भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्म[]हाभाग तयातिशेषे ।
  व्यतीतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः।।१४॥

 भक्तिरिति ॥ प्रतीक्ष्येषु पूज्येषु ॥ “पूज्यः प्रतीक्ष्यः” इत्यमरः ॥ भक्तिरनुरागविशेषस्ते तव कुलोचिता कुलाभ्यस्ता ॥ अभ्यस्तेऽप्युचितं न्याय्यम्" इति यादवः ॥ हे महाभाग सार्वभौम, तया भक्त्या पूर्वानतिशेषेऽतिवर्तसे ॥ किंतु सर्वत्र वार्त्तं चेत्तर्हि कथं खेदखिन्न इव दृश्यसेऽत आह- व्यतीतेति ॥ अहं व्यतीतकालोऽतिक्रान्तकालः सन्नर्थिभावात्त्वामभ्युपेत इति मे मम विषादः॥

  शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः ।
  आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः॥१५॥

 शरीरेति ॥ हे नरेन्द्र, तीर्थे सत्पात्रे प्रतिपादिता दत्तर्द्धिर्येन स तथोक्तः ॥

"योनौ जलावतारे च मन्त्र्याद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थं स्याद्दर्श-


  1. महाभागतया.