पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१०२

पुटमेतत् सुपुष्टितम्
( १०० )
रघुवंशे

नेष्वपि " इति हलायुधः॥ शरीरमात्रेण तिष्ठन् । आरण्यका अरण्ये भवा मनुष्या मुनिप्रमुखाः ॥ “अरण्यान्मनुष्ये" इति वुञ्प्रत्ययः॥ तैरुपात्ता फलमेव प्रसूतिर्यस्य स स्तम्बेन काण्डेनावशिष्टः || प्रकृत्यादित्वात्तृतीया ॥नीवार इव । आभासि शोभसे ॥

  स्थाने भवानेकनराधिपः सन्नकिंचनत्वं मखजं व्यनक्ति ।
  पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः॥ १६॥

 स्थान इति ॥ भवानेकनराधिपः सार्वभौमः सन् । मखजं मखजन्यम् । न विद्यते किंचन यस्येत्यकिंचनः ॥ मयूरव्यंसकादित्वात्तत्पुरुषः ॥ तस्य भावस्तत्त्वं निर्धनत्वं व्यनक्ति प्रकटयति । स्थाने युक्तम् ।। " युक्ते द्वे सांप्रतं स्थाने" इत्यमरः।। तथाहि । सुरैर्देवैः पर्यायेण क्रमेण पीतस्य हिमांशोः कलाक्षयो वृद्धेरुपचयाच्छ्लाध्यतरो हि वरः खलु ॥ “मणिः शाणालीढः समरविजयी हेतिनिहतो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः । कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः" इति भावः ॥ अत्र कामन्दकः- “ धर्मार्थं क्षीणकोशस्य क्षीणत्वमपि शोभते । सुरैः पीतावशेषस्य कृष्णपक्षे विधोरिव" इति ।

  []दन्यतस्तावदनन्यकार्यों गुर्वर्थमाहर्तुमहं यतिष्ये ।
  खस्त्यस्तु ते निर्गलिताम्बुगर्भ शरद्धनं नार्दति चातकोऽपि ॥१७॥

 तदिति ॥ तत्तस्मात्तावदनन्यकार्यः ॥ “ यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे” इति विश्वः ॥ प्रयोजनान्तररहितोऽहमन्यतो वदान्यान्तरादुर्वर्थं गुरुधनमाहर्तुमर्जयितुं यतिप्य उद्योक्ष्ये । ते तुभ्यं स्वस्ति शुभमस्तु ॥ " नमःस्वस्ति-" इत्यादिना चतुर्थी ॥ तथाहि । चातकोऽपि । “धरणीपतितं तोयं चातकानां रुजाकरम्" इति हेतोरनन्यगतिकोऽपीत्यर्थः । निर्गलितोऽम्ब्वेव गर्भो यस्य तं शरद्धनं नार्दति न याचते ॥ “अर्द गतौ याचने च" इति धातुः ॥ “याचनार्थे रणेऽर्दनम्” इति यादवः॥

  एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य ।
  किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्कः ॥ १८॥

 एतावदिति॥एतावद्वाक्यमुक्त्वा प्रतियातुं कामो यस्य तं प्रतियातुकामं गन्तुकामम् ॥

“तुम्काममनसोरपि” इति मकारलोपः ॥ महर्षेर्वरतन्तोः शिष्यं कौत्सं नृपती रघुर्निषिध्य निवार्य । हे विद्वन्, त्वया गुरवे प्रदेयं वस्तु किं किमात्मकं कियत्किंपरिमाणं वा । इत्येवं तं कौत्समन्त्रयुङ्क्त्वापृच्छत् ॥ "प्रश्नोऽनुयोगः पृच्छा च" इत्यमरः॥


  1. त्वत्ख.