इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण ।
एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ।। २३ ॥
इत्थमिति ॥ द्विजराजकान्तिश्चन्द्रकान्तिः ॥ “ द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः इत्यमरः ॥ “ तस्मात्सोमो राजा नो ब्राह्मणानाम्" इति श्रुतेः ॥ द्विजराजकान्तित्वेनार्थावाप्तिवैराग्यं वारयति ॥ एनसः पापान्निवृत्तेन्द्रियवृत्तिर्यस्य स जगदेकनाथो रघुर्वेदविदां वरेण श्रेष्ठेन द्विजेन कौत्सेनेत्थमावेदितो निवेदितः सन् । एनं कौत्सं भूयः पुनर्जगाद ।।
गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् ।
गतो वदान्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ॥ २४ ॥
गुर्वर्थमिति ॥ श्रुतस्य पारं दृष्टवाछुतपारदृश्वा ॥ “दृशेः क्वनिप् " इति क्वनिप् ॥ गुर्वर्थं गुरुदक्षिणार्थं यथा तथार्थी याचकः । विशेषणद्वयेनाप्यस्यापत्याख्येयत्वमाह । रघोः सकाशात्कामं मनोरथमनवाप्यापाप्य वदान्यान्तरं दात्रन्तरं गतः ॥ “स्युर्वदान्यस्थूललक्ष्यदानशौण्डा वहुप्रदे" इत्यमरः॥ इत्येवंरूपोऽयं परी- वादस्यापवादस्य नवो नूतनः प्रथमोऽवतार आविर्भावो मे मा भून्मास्तु ॥ रघोरिति स्वनामग्रहणं संभावितत्वद्योतनार्थम् । तथा च "संभावितस्य चाकीर्तिमर- णादतिरिच्यते" इति भावः॥
स त्वं प्रशस्ते म[१]हिते मदीये वसंश्चतुर्थोऽमिरिखान्यगारे ।
द्वित्राण्यहान्यर्हसि सोढुमर्हन्यावद्यते साधयितुं त्वदर्थम् ॥२५॥
स इति ॥ स त्वं महिते पूजिते प्रशस्ते प्रसिद्ध मदीयेऽग्यगारे त्रेताग्मिशालाया चतुर्थोऽग्निरिव वसन्दित्राणि द्वे त्रीणि वाहानि दिनानि । “संख्ययाव्ययासनादूराधिकसंख्याः संख्येये" इति बहुव्रीहिः। “बहुव्रीहौ संख्येये हजबहुगणात्" इति डप्रत्ययः समासान्तः ॥ सोढुमर्हसि । हे अर्हन्मान्य, त्वदर्थं तव प्रयोजनं साधयितुं यावद्यते यतिष्ये ॥ “यावत्पुरानिपातयोर्लट्" इति भविष्यदर्थे लट् ॥
तथेति तस्या[२]वितथं प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा।
गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुबेरात् ॥ २६ ॥
तथेतीति । अग्रजन्मा ब्राह्मणः प्रतीतः प्रीतः संस्तस्य रपोरवितथममोघं संगरं