पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १०३ )
पञ्चमः सर्गः ।

प्रतिज्ञाम् ॥ “अथ प्रतिज्ञाजिसंविदापत्सु संगरः" इत्यमरः ॥"तां गिरम्" इति केचित्पठन्ति ॥ तथेति प्रत्यग्रहीत् । रघुरपि गां भूमिमात्तसारां गृहीतधनामवेक्ष्य कुबेरादर्थं निष्क्रष्टुमाहर्तुं चकम इयेष ॥

  वशिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु ।
  मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥ २७॥

 वशिष्ठेति ।। वसिष्ठस्य यन्मन्त्रेणोक्षणमभिमन्त्र्य प्रोक्षणं तज्जात्मभावात्सामाद्धेतोः । उदन्वदाकाशमहीधरेषूद्न्वत्युदधावाकाशे महीधरेषु वा । मरुत्सखस्य ॥ मरुतः सखेति तत्पुरुषो बहुव्रीही समासान्ताभावात् । ततो वायुसहायस्येति लभ्यते ॥ वारीणां वाहको बलाहकः ॥ पृषोदरादित्वात्साधुः ॥ तस्येव मेघस्येव । तद्रथस्य गतिः संचारो न विजघ्ने न विहता हि ॥

  अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भम् ।
  सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः २८ ॥

 अथेति ॥ अथ प्रदोषे रजनीमुखे । तत्काले यानाधिरोहणविधानात् । प्रयतो धीरो रघुः । समन्ताद्भवः सामन्तः । राजमात्रमिति संभावनयैव कैलासनाथं कुबेरं तरसा वलेन जिगीषुर्जेतुमिच्छुः सन् । कल्पितं सज्जितं शस्त्रं गर्भे यस्य तं रथमधिशिश्ये । रथे शयितवानित्यर्थः ॥ “अधिशीङ्स्थासां कर्म" इति कर्मवम्।।

  प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोषगृहे नियुक्ताः।
  हिरण्मयीं कोषगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥२९॥

 प्रातरिति ॥ प्रातः प्रयाणाभिमुखाय तस्मै रघवे कोषगृहे नियुक्ता अधिकृता भाण्डागारिकाः सविस्मयाः सन्तः कोषगृहस्य मध्ये नभस्तो नभसः ॥ पञ्चम्यास्तसिल्पत्ययः ॥ पतितां हिरण्मयीं सुवर्णमयीम् ॥ “ दाण्डिनायन-" इत्यादिना निपातनात्साधुः ॥ वृष्टिं शशंसुः कथयामासुः ॥

  तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात् ।
  दिदेश कौ[१]त्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम् ॥ ३०॥

 तमिति ॥ भूपती रघुः । अभियास्यमानादभिगमिष्यमाणात्कुबेराल्लब्धम् । वज्रेण कुलिशेन भिन्नं सुमेरोः पादं प्रत्यन्तपर्वतमिव स्थितम् ॥ “पादाः प्रत्यन्तपर्वताः" इत्यमरः ॥ "शृङ्गम्" इति क्वचित्पाठः ॥ तं भासुरं भास्वरम् ॥ भञ्जभासमिदो घुरच्" इति घुरच् ॥ हेमराशिं समस्तं कृत्स्नमेव कौत्साय दिदेश

ददौ । न तु चतुर्दशकोटिमात्रमित्येवकारार्थः ॥


  1. कौत्सस्य.