पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१०६

पुटमेतत् सुपुष्टितम्
( १०४ )
रघुवंशे

  जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्धसत्त्वौ।
  गुरुप्रदे्याधिकनिःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ॥३१॥

 जनस्येति ॥ तावर्थिदातारौ द्वावपि साकेतनिवासिनोऽयोध्यावासिनः ॥ "साकेतः स्यादयोध्यायां कोसला नन्दिनी च सा" इति यादवः ॥ जनस्याभिनन्धसत्त्वौ स्तुत्यव्यवसायभूताम् ॥ “ द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इत्यमरः ॥ कौ द्वौ । गुरुप्रदेयादधिकेऽतिरिक्तद्रव्ये निःस्पृहोऽर्थी । अधिकामादार्थमनोरथादधिकं प्रददातीति तथोक्तः ॥ “प्रेदाज्ञः" इति कप्रत्ययः॥ नृपश्च।।

  अथोष्ट्रवामीशतवाहितार्थं प्रजेश्वरं प्रीतमना म[१]हर्षिः ।
  स्पृशन्करेणानतपूर्वकायं संप्रस्थितो वा[२]चमुवाच कौत्सः॥३२॥

 अथेति ॥ अथ प्रीतमना महर्षिः कौत्सः संप्रस्थितः प्रस्थास्यमानः सन् ॥ " आशंसायां भूतवच्च" इति भविष्यदर्थे क्तः ॥ उष्ट्राणां क्रमेलकानां वामीनां वडवानां च शतैर्वाहितार्थः प्रापितधनमानतपूर्वकायम् । विनयनम्रमित्यर्थः । प्रजेश्वरं रघु करेण स्पृशन्वाचमुवाच ।।

  किमत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानाम् ।
  अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥३३॥

 किमिति ॥ वृत्ते स्थितस्य ॥ "न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम्' इति कामन्दकः ॥ तस्मिन्वृत्ते स्थितस्य प्रजानामधिपतेर्नृपस्य भूः कामान्सूत इति कामसूर्यदि ॥ सत्सूद्विषद्रुह-" इत्यादिना क्विप् ॥ अत्र कामप्रसवने किं चित्रम् । न चित्रमित्यर्थः । किंतु तव प्रभावो महिमा त्वचिन्तनीयः । येन त्वया द्यौरपि मनीषितमभिलषितं दुग्धा ॥ दुहेर्दिद्विकर्मकत्वादप्रधाने कर्मणि क्तः । “प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्। अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः" इति स्मरणात् ॥

  आशास्थमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
  पुत्रं लभस्वात्मगुणानुरूपं भवन्तमी[३]ड्यं भवतः पितेव ॥ ३४ ॥

 आशास्यमिति ॥ सर्वाणि श्रेयांसि शुभान्यधिजग्मुषः प्राप्तवतस्ते तवान्यत्पुत्रातिरिक्तमाशास्यमाशीःसाध्यमाशंसनीयं वा पुनरुक्तभूतम् । सर्वं सिद्धमित्यर्थः । किं त्वीड्यं स्तुत्यं भवन्तं भवतः पितेवात्मगुणानुरूपम् । त्वया तुल्यगुणमित्यर्थः । पुत्रं लभस्व प्राप्नुहि ।।


  1. मनीषी.
  2. वाक्यम्.
  3. ईड्यः .