इत्थं प्रयुज्याशिषमग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् ।
राजापि लेभे सुतमाशु तस्मादालोकमर्कादिव जीवलोकः॥३५॥
इत्थमिति ॥ अग्रजन्मा ब्राह्मणः ॥ " अग्रजन्मा द्विजे श्रेष्ठे भ्रातरि ब्रह्मणि स्मृतः" इति विश्वः ॥ इत्थं राज्ञ आशिषं प्रयुज्य दत्त्वा गुरोः सकाशं समीपं प्रतीयाय प्राप्य ॥ राजापि । जीवलोको जीवसमूहः ॥ “जीवः प्राणिनि गीष्पतौ" इति विश्वः ॥ अर्कादालोकं प्रकाशमिव । “चैतन्यम्" इति पाठे ज्ञानम् ॥ तस्माद्द्षेराशु सुतं लेभे प्राप ।
ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् ।
अतः पिता ब्रह्मण एव नाम्ना त[१]मात्मजन्मानमजं चकार॥३६॥
ब्राह्म इति ॥ तस्य रघोर्देवी महिषी ब्राह्मे ॥ “ तस्येदम्" इत्यण् ॥ ब्रह्मदेवताकेऽभिजिन्नामके मुहूर्ते किलेषदसमाप्तं कुमारं कुमारकल्पं स्कन्दसदृशम् ॥ " ईषदसमाप्तौ-" इत्यादिना कल्पप्रत्ययः ॥ कुमारं पुत्रं सुषुवे ॥ “कुमारो बालके स्कन्दे" इति विश्वः ॥ अतो ब्राह्ममुहूर्तोत्पन्नत्वात्पिता रघुर्ब्रह्मणो विधेरेव नाम्ना तमात्मजन्मानं पुत्रमजमजनामकं चकार ॥ “ अजो हरौ हरे कामे विधौ छागे रघोः सुते" इति विश्वः ॥
रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् ।
न कारणात्स्वाब्दिभिदे कुमारःप्रवर्तितो दीप इव प्रदीपात् ॥३७॥
रूपमिति ॥ ओजस्वि तेजस्वि बलिष्ठं वा ॥ "ओजस्तेजसि धातूनामवष्टम्भप्रकाशयोः। ओजो बले च दीप्तौ च" इति विश्वः ॥ रूपं वपुः ॥ अथ रूपं नपुंसकम् । स्वभावाकृतिसौन्दर्यवपुषि श्लोकशब्दयोः” इति विश्वः ॥ तदेव पैतृकमेव । वीर्यं शौर्यं तदेव । नैसर्गिकं स्वाभाविकमुन्नतत्वं तदेव । तादृशमेवेत्यर्थः ॥ कुमारो बालकः । प्रवर्तित उत्पादितो दीपः प्रदीपात्स्वोत्पादकदीपादिव । स्वात्स्वकीयात् ॥ “पूर्वादिभ्यो नवभ्यो वा” इति स्माद्भावो वैकल्पिकः ॥ कारणाज्जनकान्न बिभिदे भिन्नो नाभूत् । सर्वात्मना तादृश एवाभूदित्यर्थः ॥
उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् ।
श्रीः सा[२]भिलाषापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष॥३८॥
उपात्तेति ॥ गुरुभ्यो विधिवद्यथाशास्त्रमुपात्तविद्यं लब्धविद्यम् । यौवनस्योद्भेदादाविर्वाद्धेतोविशेषेण कान्तं सौम्यं तमजं प्रति साभिलाषापि श्रीः । धीरा स्थिरोन्नतचित्ता ॥ "स्थिरा चित्तोन्नतिर्या तु तद्धैर्यमिति संज्ञितम्" इति भूपालः।।