पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१०८

पुटमेतत् सुपुष्टितम्
( १०६ )
रघुवंशे

कन्या पितुरिव । गुरोरनुज्ञमाचकाङ्क्षयेष । पौवराज्यार्होऽभूदित्यर्थः ॥ अनुज्ञाशब्दात्पितृपरतन्त्र्यमुपसामर्थ्यात्पाणिग्रहणयोग्यता च ध्वन्यते ॥

  अथेश्वरेण ऋ[१]थकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः।
  आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः॥३९॥

 अथेति ॥ अथ स्वसुर्भगिन्या इन्दुमत्याः स्वयंवरार्थं कुमारस्याजस्यानयन उत्सुकेन क्रथकैशिकानां विदर्भदेशानामीश्वरेण स्वामिना भोजेन राज्ञाप्तो हितो दूतो रघवे विसृष्टः प्रेषितः ॥ क्रियामात्रयोगेऽपि चतुर्थी ॥

  तं श्लाघ्यसंबन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् ।
  प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ॥४०॥

 तमिति ॥ असौ रघुस्तं भोजं श्लाघ्यसंबन्धमनूचानत्वादिगुणयोगात्स्पृहणीयसंबन्धं विचिन्त्य विचार्य पुत्रं च दारक्रियायोग्यदशं विवाहयोग्यवयसं विचिन्त्य ससैन्यमेनं पुत्रमृद्धां समृद्धां विदर्भाधिपस्य भोजस्य राजधानीं पुरीं प्रति प्रस्थापयामास ॥ धीयतेऽस्यामिति धानी । "करणाधिकरणयोश्च" इत्यधिकरणे ल्युट्प्रत्ययः ॥राज्ञां धानीति विग्रहः॥

  तस्योपकार्यारचितोपचारा व[२]न्येतरा जानपदोपदाभिः ।
  मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः॥४१॥

 तस्येति ॥ उपकार्यासु राजयोग्येषु पटभवनादिषु ॥ “सौधोऽस्त्री राजसदनमुपकार्योपकारिका" इत्यमरवचनव्याख्याने क्षीरस्वामी ॥ उपक्रियत उपकरोति वा पटमण्डपादि राजसदनमिति ॥ रचिता उपचाराः शयनादयो येषु ते तथोक्ताः। जानपदानां जनपदेभ्य आगतानामुपदाभिरुपायनैः । वन्या वने भवा इतरे येषां ते वन्येतराः । अवन्या इत्यर्थः ॥ “न बहुव्रीहौं इति सर्वनामसंज्ञानिषेधः । तत्पुरुषे सर्वनामसंज्ञा दुर्वारैव ॥ तस्य मनुजेन्द्रसूनोरजस्य मार्गे निवासा वासनिका उद्यानान्याक्रीडाः ॥ "पुमानाक्रीड उद्यानम्" इत्यमरः ॥ तान्येव विहारा विहारस्थानानि तत्कल्पाः । तत्सदृशा इत्यर्थः ॥ “ईषदसमाप्तौ-" इति कल्पप्रत्ययः ॥ बभूवुः॥

  स नर्मदारोधसि सीकराद्रैर्मरुद्भिरानर्तितनक्तमाले ।
  निवेशयामास विलङ्गिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥१२॥

 स इति ॥ विलङ्घिताध्वातिक्रान्तमार्गः सोऽजः सीकरार्द्रैः। शीतलैरित्यर्थः ।


  1. कृथकौशकानाम्.
  2. कीर्णान्तरा.