पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१०९

पुटमेतत् सुपुष्टितम्
( १०७ )
पञ्चमः सर्गः ।

मरुद्भिर्वातैरानर्तिताः कम्पिता नक्तमालाश्चिरबिल्वाख्यवृक्षभेदाः ॥“चिरबिल्वो नक्तमालः करजश्च करञ्जके" इत्यमरः ॥ यस्मिस्तस्मिन् । निवेशार्ह इत्यर्थः । नर्मदाया रोधसि रेवायास्तीरे क्लान्तं श्रान्तं रजोभिर्धूसराः केतवो ध्वजा यस्य तत्सैन्यं निवेशयामास ॥

  अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः।
  नि[१]र्धौतदानामलगण्डभित्तिर्वन्यः सरित्तो गज उन्ममज्ज ॥४॥

 अथेति ॥ अथोपरिष्टादूर्ध्वम् ॥ “उपर्युपरिष्टात्" इति निपातः॥ भ्रमद्भिः। मदलोभादिति भावः । भ्रमरैः प्रागुन्मज्जनात्पूर्वं सूचितो ज्ञापितोऽन्तःसलिले प्रवेशो यस्य स तथोक्तः । निर्धौतदाने क्षालितमदे अत एवामले गण्डभित्ती यस्य स तथोक्तः ॥ “दानं गजमदे त्यागे" इति शाश्वतः ॥ प्रशस्तौ गण्डौ गण्डभित्ती॥ “प्रशंसावचनैश्च" इति समासः । भित्तिशब्दः प्रशस्तार्थः । तथा च गणरत्नमहोदधौ “मतल्लिकोद्धमिश्राः स्युः प्रकाण्डस्थलभित्तयः" इति ॥ भित्तिः प्रदेशो वा ॥ “भित्तिः प्रदेशे कुड्येsपि" इति विश्वः ॥ निर्धौतदानेनामला गण्डभित्तिर्यस्येति वा ।। वन्यो गजः सरित्तो नर्मदायाः सकाशात् ॥ पञ्चम्यास्तसिल्प्रत्ययः ॥ उन्ममज्जोत्थितः ।।

  निःशेषविक्षालितधातुनापि वप्रक्रियामृ[२]क्षवतस्तटेषु ।
  नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ॥ १४ ॥

 निःशेषेति ॥ कथंभूतो गजः। निःशेषविक्षालितधातुनापि धौतगैरिकादिनापि । नीलाभिरूर्ध्वाभी रेखाभिस्तटाभिघातजनिताभिः शबलेन कर्बुरेण ॥ "चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे" इत्यमरः॥अश्मभिः पाषाणैर्विकुण्ठितेन कुण्ठीकृतेन दन्तद्वयेन । ऋक्षवान्नाम कश्चित्तत्रत्यः पर्वतः। तस्य तटेषु वप्रक्रियां वप्रक्रीडाम् । उत्खातकेलिमित्यर्थः ।। " उत्खातकेलिः शृङ्गायैर्वप्रक्रीडा निगद्यते” इति शब्दार्णवः ॥ शंसन्कथयन् । सूचयन्नित्यर्थः । युग्मम् ॥

  संहा[३]रविक्षपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् ।
  बभौ स भिन्दन्बृ[४]हतस्तरंगान्वार्यर्गलाभङ्ग इव प्रवृत्तः।। ४५॥

 संहारेति ॥ संहारविक्षेपयोः संकोचनप्रसारणयोर्लघुक्रियेण क्षिप्रव्यापारेण ॥


  1. निर्धूतदानामलगल्लभित्तिः; निर्धूतदानामलगण्डलेखः.
  2. ऋष्यवतः.
  3. स भोगिभोगाधिकपीवरेण संवेष्टितार्धप्रसृतेन दीर्घान् । चिक्षेप तीराभिमुखः सशब्दं हस्तेन वारीपरिघानिवोर्वीन्.
    (१ संवेष्टितोऽर्धप्रसरेण.)
  4. सहसा.