पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/११०

पुटमेतत् सुपुष्टितम्
( १०८ )
रघुवंशे

'लघु क्षिप्रमरं द्रुतम्" इत्यमरः ॥ हस्तेन शुण्डादण्डेन ॥ " हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि” इति विश्वः ॥ स शब्दं सघोषं बृहतस्तरंगान्भिन्दन्विदारयस्तराभिमुखः स गजः । वारी गजबन्धनस्थानम् ॥ “वारी तु गजबन्धनी" इति यादवः ॥ वार्या अर्गलाया विष्कम्भस्य भङ्गे भञ्जने प्रवृत्त इव बभौ ॥

  शै[१]लोपमः शैवलमञ्जरीणां जालानि कर्षन्नु[२]रसा स पश्चात् ।
  पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥ ४६ ॥

 शैलेति॥शैलोपमः स गजः शैवलमञ्जरीणां जालानि वृन्दान्युरसा कर्षन्पश्चात्तटमुत्ससर्प।पूर्वं तेन गजेनोत्पीडितो नुन्नो वारिराशिर्यस्य स सरित्प्रवाहस्तटामुत्ससर्प ।।

  तस्यैकनागस्य कपोलभित्त्योर्ज[३]लावगाहक्षणमात्रशान्ता ।
  वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः ॥ ४७ ॥

 तस्येति ॥ तस्यैकनागस्यैकाकिनो गजस्य कपोलभित्त्योर्जलावगाहेन क्षणमात्रं शान्ता निवृत्ता मददुर्दिनश्रीर्मदवर्षलक्ष्मीर्वन्येतरेषां ग्राम्याणामनेकपानां द्विपानां दर्शनेन पुनर्दिदीपे ववृधे ।।

  सप्तच्छदक्षोरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् ।
  विलङ्किताधारणतीव्रयत्नाः सेनागजेन्द्रा वि[४]मुखा बभूवुः॥४८॥

 सप्तच्छदेति ॥ सप्तच्छदस्य वृक्षविशेषस्य क्षीरवत्कटुः सुरभिः प्रवाहः प्रसारो यस्य तम् ॥ “कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः" इति यादवः ॥ असह्यं तदीयं मदमाघ्राय सेनागजेन्द्राः । विलङ्कितस्तिरस्कृत आधोरणानां हस्तिपकानां तीव्रो महान्यत्नो यैस्ते तथोक्ताः सन्तः ॥ “ आधोरणा हस्तिपका हस्त्यारोहा निपादिनः" इत्यमरः ॥ विमुखाः पराङ्मुखा बभूवुः ॥

  स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन ।
  रामापरित्राणविहस्तयोधं सेनानिवेशं तु[५]मुलं चकार ॥ ४९ ॥

 स इति ॥ स गजः । छिन्ना बन्धा यैस्ते छिन्नबन्धा द्रुताः पलायिताः । युगं वहन्तीति युग्या वाहा यस्मिन्सः । स चासौ शून्यश्च तम् । भग्ना अक्षा रथावयवदारुविशेषाः ॥ “अक्षो रथस्यावयवे पाशकेऽप्यक्षमिन्द्रियम्" इति शाश्वतः ॥ येषां


  1. कारण्डवोत्सृष्टमृदुप्रवालाः पुलिन्दयोषाम्बुविहारकाञ्चीः। कर्षन्स सेवाललता नदीष्णः प्रौहाबलग्रास्तटामुत्सर्प.( १ प्रतानाः. २ शैवाल, ३ प्रोहावलग्नाः; प्रवाहलग्नाः.)
  2. तरसा.
  3. ह्रदावगाह.
  4. विमुखीबभूवुः.
  5. चपलम्.