पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१११

पुटमेतत् सुपुष्टितम्
( १०९ )
पञ्चमः सर्गः ।

ते भग्नाक्षा अत एव पर्यस्ताः पतिता रथा यस्मिस्तम् । रामाणां स्त्रीणां परित्राणे संरक्षणे विहस्ता व्याकुलाः ॥ “विहस्तव्याकुलौ समौ" इत्यमरः ॥ योधा यस्मिस्तं सेनानिवेशं शिबिरं क्षणेन तुमुलं संकुलं चकार ॥

  तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः।
  निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशा[१]र्ङ्गः ॥५०॥

 तमिति ॥ नृपते राज्ञो वन्यः कर्यवध्य इति श्रुतवाञ्छास्त्राज्ज्ञातवान्कुमार आपतन्तमभिधावन्तं तं गजं निवर्तयिष्यन्न तु प्रहरिष्यन् । अत एव नात्यायतमनतिदीर्घं यथा स्यात् ॥ नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ कृष्टशार्ङ्ग ईपदाकृष्टचापः सन्विशिखेन बाणेन कुम्भे जघान ॥ अत्र चाक्षुषः- "लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यात् । इयं हि श्रीर्ये करिणः” इति । अत एव “युद्धादन्यत्र" इति द्योतनार्थमेव वन्यग्रहणं कृतम् ॥

  स विद्धमात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः ।
  स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरं प्रपेदे ॥५१॥

 स इति ॥ स गजो विद्धमात्रस्ताडितमात्रः किल न तु प्रहृतस्तथापि नागरूपं गजशरीरमुत्सृज्य । तेन वृत्तान्तेन विस्मितैस्तद्विस्मितैः सैन्यदृष्टः सन् । स्फुरतः प्रभामण्डलस्य मध्यवर्ति कान्तं मनोहरं व्योमचरं वपुः प्रपेदे पाप ॥

  अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः ।
  उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलता[२]रहारः॥५२ ।।

 अथेति ॥ अथ प्रभावेनोपनतैः प्राप्तैः कल्पद्रुमोत्थैः कल्पवृक्षोत्पन्नैः पुष्पैः कुमारमजमवकीर्याभिवृष्य दशनप्रभाभिर्दन्तकान्तिभिः संवर्धिता उरःस्थले ये तारहाराः स्थूलमुक्ताहारास्ते येन स तथोक्तः । वाचोऽस्य सन्तीति वाग्मी वक्ता ॥ वाचो ग्मिनिः" इति ग्मिनिप्रत्ययः ॥ स पुरुष उवाच ॥

  मतगङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।
  अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥ ५३ ॥

 मतङ्गति ।। अवलेपमूलाद्गर्वहेतुकात् ॥ “ अवलेपस्तु गर्वे स्याल्लेपने द्वेषणेऽपि

च" इति विश्वः ॥ मतङ्गस्य मुनेः शापान्मतङ्गजत्वमवाप्तवानस्मि ॥ मां प्रियदर्शनस्य प्रियदर्शनाख्यस्य गन्धर्वपतेर्गन्धर्वराजस्य तनूजं पुत्रम् ॥ “स्त्रियां मूर्तिस्त-


  1. चापः.
  2. चारुहारः.