पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/११४

पुटमेतत् सुपुष्टितम्
( ११२ )
रघुवंशे

 प्रवेश्येति ॥ एनमजमग्रयायी। सेवाधर्मेण पुरो गच्छन्नित्यर्थः । नीचैर्नम्रः पुरं प्रवेश्य प्रवेशं कारयित्वा प्रीत्यार्पितश्रीस्तथा तेन प्रकारेणोपाचरदुपचरितवान् । यथा येन प्रकारेण तत्र पुरे समेतो मिलितो जनो वैदर्भं भोजमागन्तुं प्राघूर्णिकं मेने । अजं गृहेशं गृहपतिं मेने ॥

  तस्या[१]धिकारपुरुषैः प्रणतैः प्रदिष्टां
   प्राग्द्वारवेदिविविवेशितपू[२]र्णकुम्भाम् ।
  रम्यां रघुप्रतिनिधिः स नवोपकार्यां
   बाल्यात्परामिव दशां मदनोऽध्युवास ।। ६३॥

 तस्येति ॥ रघुप्रतिनिधी रघुकल्पः । रघुतुल्य इत्यर्थः । उक्तं च दण्डिना सादृश्यवाचकप्रस्तावे “ कल्पदेशीयदेश्यादि प्रख्यप्रतिनिधी अपि इति ॥ सोऽजः प्रणतैर्नमस्कृतवद्भिः॥ कर्तरि क्तः ॥ तस्य भोजस्याधिकारी नियोगस्तस्य पुरुषैः । अधिकृतैरित्यर्थः । मदिष्टां निर्दिष्टां प्राग्द्वारस्य वेद्यां विनिवेशितः प्रतिष्ठापितः पूर्णकुम्भो यस्यास्ताम् । स्थापितमङ्गलकलशामित्यर्थः । रम्यां रमणीयां नवोपकार्यां नूतनं राजभवनम् ॥ “ उपकार्या राजसद्मन्युपचारचितेऽन्यवत्' इति विश्वः ॥ मदनो बाल्यात्परां शैशवादनन्तरां दशामिव ॥ यौवनमिवेत्यर्थः । अध्युवासाधिष्ठितवान् । तत्रोषितवानित्यर्थः ॥ "उपान्वध्याङ्वसः" इति कर्मत्वम् ॥

  तत्र स्वयंवरसमाहृतराजलोकं
   कन्याललाम कमनीयमजस्य लिप्सोः ।
  भावावबोधकलुषा दयितेव रात्रौ
   निद्रा चिरेण नयनाभिमुखी बभूव ॥६४ ॥

 तत्रेति ॥ तत्रोपकार्यायाम् । स्वयंवरनिमित्तं समाहृतः संमेलितो राजलोको येन तत्कमनीयं स्पृहणीयं कन्याललाम कन्यासु श्रेष्ठम् ॥ “ललामोऽस्त्री ललामापि प्रभावे पुरुषे ध्वजे । श्रेष्ठभूषाशुण्डशृङ्गपुच्छचिह्नाश्वलिङ्गिषु" इति यादवः ॥ लिप्सोर्लब्धुमिच्छोः ॥ लमेः सन्नन्तादुप्रत्ययः॥ अजस्य भावावबोधे पुरुषस्याभिप्रायपरिज्ञाने कलुषासमर्था दयितेव । रात्री निद्रा चिरेण नयनाभिमुखी बभूव ।। "राजानं कामिनं चौरं प्रविशन्ति प्रजागराः" इति भावः ॥ अभिमुखीशब्दो

डीषन्तश्च्व्यन्तो वा॥


  1. अधिकारिपुरुषैः.
  2. हेमकुम्भाम्.