पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/११५

पुटमेतत् सुपुष्टितम्
( ११३ )
पञ्चमः सर्गः ।

  तं कर्णभूषणनिपीडितपीवरांसं
   शय्योत्तरच्छदविमर्दकृशाङ्गरागम् ।
  सू[१]तात्मजाः सवयसः प्रथितप्रबोधं
   प्राबोधयन्नुषसि वाग्भिरुदारवाचः॥६५॥

 तमिति ॥ कर्णभूषणाभ्यां निपीडितौ पीवरौ पीनावंसौ यस्य तम् । शय्याया उत्तरच्छदस्योपर्यास्तरणवस्त्रस्य विमर्देन घर्षणेन कृशो विमलोऽङ्गरागो यस्य तम् । न त्वङ्गनासङ्गादिति भावः । प्रथितप्रबोधं प्रकृष्टज्ञानं तमेनमजं सवयसः समानवयस्का उदारवाचः प्रगल्भगिरः सूतात्मजा बन्दिपुत्राः ॥ “वैतालिकाः" इति वा पाठः । “वैतालिका बोधकराः" इत्यमरः ॥ वाग्भिः स्तुतिपाठरुषसि प्राबोधयन्प्रबोधयामासुः॥

  रात्रिर्गता मतिमतां वर मुश्च शय्यां
   धात्रा द्विधैव ननु धूर्जगतो विभक्ता।
  ता[२]मेकतस्तव बिभर्ति गुरुर्विनि[३]द्र-
   स्तस्या भवानपरधुर्यपदावलम्बी ॥ ६६ ॥

 रात्रिरिति ॥ हे मतिमतां वर ॥ निर्धारणे षष्ठी ॥ रात्रिर्गता । शय्यां मुश्च । विनिद्रो भवेत्यर्थः । विनिद्रत्वे फलमाह-धात्रेति ॥ धात्रा ब्रह्मणा जगतो धूर्भारः ॥ "धूः स्याद्यानमुखे भारे" इति यादवः ॥ द्विधैव । द्वयोरेवेत्यर्थः । एवकारस्तृतीयनिषेधार्थः । विभक्ता ननु विभज्य स्थापिता खलु ॥ तत्किमत आह-तां धुरमेकत एककोटौ तव गुरुः पिता विनिद्रः सन्बिभर्ति । तस्या धुरो भवान् । धुरं वहतीति धुर्यो भारवाही । तस्य पदं वहनस्थानम् । अपरं यद्धुर्यपदं तदवलम्बी । ततो विनिद्रो भवेत्यर्थः । न ह्युभयवाह्यमेको वहतीति भावः ।।

  नि[४]द्रावशेन भवताप्य[५]नवेक्षमाणा
   पर्युत्सुकत्वमबला निशि खण्डितेव ।
  लक्ष्मीर्विनोदयति येन दिगन्तलम्बी
   सोऽपि त्वदाननरुचिं विजहाति चन्द्रः॥६७॥


१५
 
  1. वैतालिका ललितबन्धमनोहराभिः.
  2. याम्.
  3. वितन्द्रः.
  4. निद्रावशं त्वयि गते * * *
    कथंचिदात्मानमाननरुचा भवतो वियुज्य । लक्ष्मीर्विभातसमयेऽपि हि दर्शनेन पर्युत्सुका प्रणयिनी
    निशि खण्डितेव.
  5. अप्यनपेक्षमाणा;अप्यनवेक्ष्यमाणा; ह्यनपेक्ष्यमाणा.