पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/११६

पुटमेतत् सुपुष्टितम्
( ११४ )
रघुवंशे

 निद्रेति ।। चन्द्रारविन्दराजवदनादयो लक्ष्मीनिवासस्थानानीति प्रसिद्धिमाश्रित्योच्यते । निद्रावशेन निद्राधीनेन । स्त्र्यन्तरासगोऽत्र ध्वन्यते । भवता पर्युत्सुकत्वमपि । त्वय्यनुरक्तत्वमपीयर्थः ॥ “प्रसितोत्सुकाभ्यां तृतीया च" इति सप्तम्यर्थे तृतीया ॥ अपिशब्दस्तद्विषयानुरागस्यानपेक्ष्यत्वद्योतनार्थः ॥ निशि खण्डिता भर्तुर०न्यासङ्गज्ञानकलुषिताबलेव नायिकेव ॥ "ज्ञातेऽन्यासाङ्गविकृते खण्डितेर्ष्याकषायिता" इति दशरूपके ।। अनवेक्षमाणाविचारयन्ती सती । उपेक्षमाणेत्यर्थः ॥ " ह्यनवेक्ष्यमाणा" इति पाठे निद्रावशेन भवतानवेक्ष्यमाणानिरीक्ष्यमाणा ॥ कर्मणि शानच् ॥ लक्ष्मीः । प्रयोजककर्त्री । येन । प्रयोज्येन । चन्द्रेण । पर्युत्सुकत्वं त्वद्विरहवेदनाम् ।। “कालाक्षमत्वमौत्सुक्यं मनस्तापज्वरादिकृत् " इत्यलंकारे ॥ विनोदयति निरासयतीति योजना । शेषं पूर्ववत् ॥ नाथस्त्वर्थोपपत्तिमपश्यन्निमं पक्षमुपैक्षिष्ट ॥ लक्ष्मीर्येन चन्द्रेण सह । त्वदाननसदृशत्वादिति भावः । विनोदयति विनोदं करोति ॥ विनोदशब्दात् “ तत्करोति तदाचष्टे" इति णिच्प्रययः ॥ सादृश्यदर्शनादयो हि विरहिणां विनोदस्थानानीति भावः । स चन्द्रोऽपि दिगन्तलम्बी पश्चिमाशां गतः सन् । अस्तं गच्छन्नित्यर्थः ।। अत एव त्वदाननरुचिं विजहाति । त्वन्मुखसादृश्यं त्यजतीसर्थः । अतो निद्रां विहाय तां लक्ष्मीमनन्यशरणां परिगृहाणेति भावः ॥

  तद्वल्गुना युगपदुन्मिषितेन ताव-
   त्सद्यः परस्परतुलामधिरोहतां द्वे ।
  प्रस्पन्दमानपरुषतरतारमन्त-
   श्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥ ६८॥

 तदिति ॥ तत्तस्माल्लक्ष्मीपरिग्रहणाद्वल्गुना मनोज्ञेन ॥ " वल्गु स्थाने मनोज्ञे च वल्गु भाषितमन्यवत्" इति विश्वः ॥ युगपत्तावदुन्मिषितेन युगपदेवोन्मीलितेन सद्यो द्वे अपि परस्परतुलामन्योन्यसादृश्यमधिरोहतां प्राप्नुताम् ।। प्रार्थनायां लोट् ॥ के द्वे । अन्तः प्रस्पन्दमाना चलन्ती परुषेतरा स्निग्धा तारा कनीनिका यस्य तत्तथोक्तम् ॥ " तारकाक्ष्णः कनीनिका" इत्यमरः।। तव चक्षुः । अन्तः प्रचलितभ्रमरं चलद्भृङ्गं पद्मं च । युगपदुन्मेषे सति संपूर्णसादृश्यलाभ इति भावः॥

  वृ[१]न्ताच्छ्लथं हरति पुष्पमनोकहानां
   संसृज्यते सरसिजैररुणांशुभिन्नैः ।
  स्वा[२]भाविकं परगुणेन विभातवायुः
   सौरभ्यमीप्सुरिव ते मुखमारुतस्य ॥ ६९ ॥


  1. वृन्तश्लथम्.
  2. सौरभ्यमीप्सुरिव ते मुखमारुतस्य यन्नो गुणान्मति निशापरिणामवायुः.