पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/११७

पुटमेतत् सुपुष्टितम्
( ११५ )
पञ्चमः सर्गः ।

 वृन्तादिति ॥ बिभातवायुः प्रभातवायुः स्वाभाविकं नैसर्गिकं ते तव मुखमारुतस्य निःश्वासपवनस्य सौरभ्यम् । तादृक्सौगन्ध्यमित्यर्थः । परगुणेनान्यदीयगुणेन । सांक्रामिकगन्धेनेत्यर्थः । ईप्सुराप्तुमिच्छुरिव ॥ " आप्ज्ञप्यृधामीत्" इतीकारादेशः॥ अनोकहानां वृक्षाणां श्लथं शिथिलं पुष्पं वृन्तात्पुष्पबन्धनात् ॥ “वृन्तं प्रसवबन्धनम्" इत्यमरः॥ हरत्यादत्ते । अरुणांशुभिन्नैस्तरणिकरणोद्बोधितैः सरसि जातैः सरसिजैः कमलैः सह ॥ “तत्पुरुषे कृति बहुलम्" इति सप्तम्या अलुक् ॥संसृज्यते संगच्छते ॥ सृजेर्दैवादिकाकर्तरि लट् ॥

  ताम्रोदरेषु पतितं त[१]रुपल्लवेषु
   नि[२]र्धौतहारगुलिकाविशदं हिमाम्भः ।
  आभाति लब्धपरभागतयाधरोष्ठे
   लीलास्मितं सदशनार्चिरिव त्वदीयम् ॥ ७०॥

 तात्रेति ॥ ताम्रोदरेष्वरुणाभ्यन्तरेषु तरुपल्लवेषु पतितं निर्धौता या हारगुलिया मुक्तामणयस्तद्वद्विशदं हिमाम्भो लब्धपरभागतया लब्धोत्कर्षतया ॥ "परभागो गुणोत्कर्षे" इति यादवः ॥ अधरोष्ठे त्वदीयं सदशनार्चिर्दन्तकान्तिसहितं लीलास्मितमिवाभाति शोभते ।।

  यावत्प्रतापनिधिराक्रमते न भानु-
   रह्नाय तावदरुणेन तमो निरस्तम् ।
  आयोधनाग्रसरता त्वयि वीर याते
   किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति ॥७१ ॥

 यावदिति ॥ प्रतापनिधिस्तेजोनिधिर्भानुर्यावन्नाक्रमते नोद्गच्छति ॥ “आङ उद्गमने" इत्यात्मनेपदम् ॥ तावत् । भानावनुदित एवेत्यर्थः ॥ अह्नाय झटिति ॥ "द्राग्झटित्यञ्जसाह्नाय" इत्यमरः ॥ अरुणेनानूरुणा ॥ “सूर्यसूतोऽरुणोऽनूरुः" इत्यमरः । तमो निरस्तम् ॥ तथाहि । हे वीर त्वय्यायोधनेषु युद्धेषु ॥ “युद्धमायोधनं जन्यम्" इत्यमरः ॥ अग्रसरतां पुरःसरतां याते सति तव गुरुः पिता रिपून्स्वयमुच्छिनत्ति किं वा । नोच्छिनत्त्येवेत्यर्थः ॥ न खलु योग्यपुत्रन्यस्तभाराणां स्वामिनां स्वयं व्यापारखेद इति भावः ॥

  शय्यां जहत्युभयपक्षविनीतनिद्राः
   स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते ।


  1. द्रुमपल्लवेषु.
  2. निर्धूतहारगुटिका.