पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/११८

पुटमेतत् सुपुष्टितम्
( ११६ )
रघुवंशे

  येषां विभान्ति तरुणारुण[१]रागयोगा-
   द्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः॥७२॥

 शय्यामिति ॥ उभाभ्यां पक्षाभ्यां पार्श्वाभ्यां विनीतापगता निद्रा येषां त उभयपक्षविनीतनिद्राः ॥ अत्र समासविषय उभशब्दस्थान उभयशब्दप्रयोग एव साधुरित्यनुसंधेयम् ॥ यथाह कैयटः- "उभादुदात्तो नित्यमिति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय उभशब्दस्य प्रयोगो मा भूत् । उभयशब्दस्यैव यथा स्यात् । उभयपुत्र इत्यादि भवति" इति ॥ मुखराण्युत्थानचलनाच्छब्दायमानानि शृङ्खलानि निगडानि कर्षन्तीन्ति तथोक्तास्ते तव स्तम्बे रमन्त इति स्तम्बेरमा हस्तिनः ॥ “ स्तम्बकर्णयो रमिजपोः" इत्यच्प्रत्ययः । “ हस्तिसूचकयोः" इति वक्तव्यात् ॥ “इभः स्तम्बेरमः पद्मी" इत्यमरः ॥ “तत्पुरुषे कृति बहुलम्" इति सप्तम्या अलुक् ॥ शय्यां जहति त्यजन्ति । येषां स्तम्बरमाणाम् । दन्ताः कोशा इव दन्तकोशाः । दन्तकुड्मलास्तरुणारुणरागयोगाद्वालार्कारुणसंपर्काद्धेतोर्भिन्नाद्रिगैरिकतटा इव विभान्ति । धातुरक्ता इव भान्तीत्यर्थः ॥

  दीर्घेष्वमी नियमिताः पटमण्डपेषु
   निद्रां विहाय व[२]नजाक्ष वनायुदेश्याः ।
  वक्त्रोष्मणा मलिनयन्ति पुरोगतानि
   लेह्यानि सैन्धवशिलाशकलानि वाहाः॥७३॥

 दीर्घेष्विति ॥ हे वनजाक्ष नीरजाक्ष ॥ “वनं नीरं वनं सत्त्वम्” इति शाश्वतः ॥ दीर्घेषु पटमण्डपेषु नियमिता बद्धा वनायुदेश्या वनायुदेशे भवाः ॥ "पारसीका वनायुजाः" इति हलायुधः ॥ अमी वाहा अश्वा निद्रां विहाय पुरोगतानि लेह्यान्यास्वाद्यानि सैन्धवशिलाशकलानि ॥ “सैन्धवोऽस्त्री सितशिवं माणिमन्थं च सिन्धुजे" इत्यमरः ॥ वक्त्रोष्मणा मलिनयन्ति मलिनानि कुर्वन्ति । उक्तं च सिद्धयोगसंग्रहे-“पूर्वाह्णकाले चाश्वानां प्रायाशो लवणं हितम् । शूलमोहविबन्धघ्नं लवणं सैन्धवं वरम्" इत्यादि ।

  भवति विरलभक्तिर्म्लानपुष्पोपहारः
   स्वकिरणपरिवेषोद्भेदशून्याः प्रदीपाः।
  अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्ता-
   मनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः॥७४॥

 भवतीति ॥ म्लानः पुष्पोपहारः पुष्पपूजा म्लानत्वादेव विरलभक्तिर्विरल-


  1. कान्तियोगात्.
  2. वनजाक्ष वनायुजास्ते; वनजेक्षणवाह्निदेश्याः.