षष्ठः सर्गः ।
जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ ।
कामारि कामतातं वा कंचिद्देवं भजामहे ।।
स तत्र मञ्चेषु मनोज्ञवेषान्सिंहासनस्थानुपचारवत्सु ।
वैमानिकानां मरुतामपश्यदाकृष्टलीलानरलोकपालान् ॥१॥
स इति ॥ सोऽजस्तत्र स्थान उपचारवत्सु राजोपचारवत्सु मञ्चेषु पर्यङ्केषु सिंहासनस्थानमनोज्ञवेषान्मनोहरनेपथ्यान्वैमानिकानां विमानैश्चरताम् ।। "चरति" इति ठक्प्रत्ययः ॥ मरुताममराणाम् ॥ “ मरुतौ पवनामरौ" इत्यमरः ॥ आकृलीलान्गृहीतसौभाग्यान् । आकृष्टमरुल्लीलानित्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ नरलोकं पालयन्तीति नरलोकपालाः ॥ कर्मण्यण्प्रत्ययः ॥ तान्भूपालानपश्यत् ॥ सर्गेऽस्मिन्नुपजातिश्छन्दः॥
रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण ।
काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥२॥
रतेरिति ॥ " रतिः स्मरप्रियायां च रागे च सुरते स्मृता" इति विश्वः॥ रतेः कामप्रियाया गृहीतानुनयेन स्वीकृतप्रार्थनेन । गृहीतरत्यनुनयेनेत्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ ईश्वरेण हरेण प्रत्यर्पितस्वाङ्गं काममिव स्थितं काकुत्स्थमजमालोकयतां नृपाणां मन इन्दुमतीनिराशं वैदर्भीनिःस्पृहं बभूव । इन्दुमती सत्पतिमेनं विहाय नास्मान्वरिष्यतीति निश्चिक्युरित्यर्थः । सर्वातिशयसौन्दर्यमस्येति भावः ॥
वैदर्भनिर्दिष्टम[१]सौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम् ।
शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥३॥
वैदर्भेति ॥ असौ कुमारो वैदर्भेण भोजेन निर्दिष्टं प्रदर्शितं मञ्चं पर्यङ्कं क्लृप्तेन सुविहितेन सोपानपथेन । मृगराजशावः सिंहपोतः ॥ "पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः" इत्यमरः ॥ शिलानां विभङ्गैर्भङ्गीभिस्तुङ्गमुन्नतं नगोत्सङ्गं शैलाग्रमिव । आरुरोह ॥
परार्ध्यवर्णास्तरणोपपन्नमासेदिवारत्नवदासनं सः।
भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥ ४॥
परायेति ॥ परार्ध्याः श्रेष्ठा वर्णा नीलपीतादयो यस्य तेनास्तरणेन कम्बला-
दिनोपपन्नं संगतं रत्नवद्रत्नखचितमासनं सिंहासनमासेदिवानधिष्ठितवान्सोऽजः ।
- ↑ अथो.