पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१२१

पुटमेतत् सुपुष्टितम्
( ११९ )
षष्ठः सर्गः ।

मयूरपृष्ठाश्रयिणा गुहेन सेनान्या सह ॥ “सेनानीरग्निभूर्गुहः" इत्यमरः ॥ भूयिष्ठमत्यर्थमुपमेयकान्तिरासीत् ॥ मयूरस्य विचित्ररूपत्वात्तत्साम्यं रत्नासनस्य । तद्द्वारा च तदारूढयोरपीति भावः॥

  तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्यः ।
  []हस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ॥५॥

 तास्विति ॥ तासु राजपरंपरासु श्रिया लक्ष्म्या । कर्त्र्या । पयोमुचां मेघानां पङ्क्तिषु विद्युतेव सहस्रधा विभक्तः । तरंगेषु तरणिरिव स्वयमेक एव प्रत्येकं संक्रामित इत्यर्थः । प्रभाविशेषस्योदयेनाविर्भावेन दुर्निरीक्ष्यो दुर्दर्शन आत्मा श्रियः स्वरूपं व्यरुचद्व्यद्योतिष्ट । “द्युद्भयो लुङि" इति परस्मैपदम् । दुतादित्वादङ्प्रत्ययः ॥ तस्मिन्समये प्रत्येकं संक्रान्तलक्ष्मीकतया तेषां किमपि दुरासदं तेजः प्रादुरासीदित्यर्थः॥

  तेषां महार्हासन[]संस्थितानामुदारनेपथ्यभृतां स मध्ये ।
  रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः॥६॥

 तेषामिति ॥ महार्हासनसंस्थितानां श्रेष्ठसिंहासनस्थानाम् । उदारनेपथ्यभृतामुज्ज्वलवेषधारिणां तेषां राज्ञां मध्ये । कल्पद्रुमाणां मध्ये पारिजात इव सुरद्रुमविशेष इव ॥“पञ्चैते देवतरवो मन्दारः पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्" इत्यमरः ॥ स रघुसूनुरेव धाम्ना तेजसा ।। "भूम्ना" इति पाठेऽतिशयेनेत्यर्थः ॥ रराज ॥ अत्र कल्पद्रुमशब्दः पञ्चान्यतमविशेषवचनः । उपकल्पयन्ति मनोरथानिति व्युत्पत्त्या सुरद्रुममात्रोपलक्षकतया प्रयुक्त इत्यनुसंधेयम् ॥ कल्पा इति द्रुमाः कल्पद्रुमा इति विग्रहः ।।

  नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः ।
  मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः॥७॥

 नेत्रेति ॥ पौरजनस्य नेत्रव्रजाः सर्वान्नृपतीन्विहाय तस्मिन्नजे निपेतुः । स एव सर्वोत्कर्षेण ददृश इत्यर्थः ॥ कथमिव । मदोत्कटे मदेनोद्भिन्नगण्डे निर्भरमदे वा वन्ये गन्धद्विपे गन्धप्रधाने द्विपे गजे । रेचिता रिक्तीकृताः पुष्पाणां वृक्षा यैस्ते।

त्यक्तपुष्पवृक्षा इत्यर्थः । द्विरेफा भृङ्गा इव । द्विपस्य वन्यविशेषणं द्विरेफाणां पुष्पवृक्षत्यागसंभावनार्थं कृतम् ।।


  1. सहस्रधामा.
  2. संश्रितानाम्.