पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१२२

पुटमेतत् सुपुष्टितम्
( १२० )
रघुवंशे

 त्रिभिर्विशेषकमाह-

  अथ स्तुते बन्दिभिरन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके।
  संचारिते चागुरुसारयोनौ धूपे स[१]मुत्सर्पति वैजयन्तीः॥८॥

 अथेति ॥ अथान्वयज्ञैः राजवंशाभिर्वन्दिभिः स्तुतिपाठकैः ॥ “वन्दिनः स्तुतिपाठकाः" इत्यमरः ॥ सोमार्कवंश्ये सोमसूर्यवंशभवे नरदेवलोके राजसमूहे स्तुते सति । विवशेत्युत्तरेण संबन्धः । एवमुत्तरत्रापि योज्यम् । संचारिते समन्तात्मचारिते। अगुरुसारो योनिः कारणं यस्य तस्मिन्धूपे च वैजयन्तीः पताकाः समुत्सर्पति सति । अतिक्रम्य गच्छति सति ॥

  पुरोपकण्ठोपवना[२]श्रयाणां क[३]लापिनामुद्धतनृत्यहेतौ।
  प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्छति मङ्गलार्थे ॥९॥

 पुरोपकण्ठेति ॥ किं च । पुरस्योपकण्ठे समीप उपवनान्याश्रयो येषां तेषां कलापिनां बर्हिणामुद्धतनृत्यहेतौ । मेघध्वनिसादृश्यात्ताण्डवकारणे । प्रध्माताः पूरिताः शङ्खा यत्र तस्मिन् । मङ्गलार्थे मङ्गलप्रयोजनके । तूर्यस्वने वाद्यघोषे परितः सर्वतो दिगन्तान्मूर्छति व्याप्नुवति सति ॥

  मनुष्यवाह्यं च[४]तुरस्रयानमध्यास्य कन्या परिवारशोभि ।
  विवेश मश्चान्तरराजमार्गं पतिंवरा क्लृप्तविवाहवेषा ॥ १० ॥

 मनुष्येति ॥ पतिं वृणोतीति पतिंवरा स्वयंवरा ॥ "अथ स्वयंवरा । पतिंवरा च वर्या च" इत्यमरः ॥" संज्ञायां भृतॄवृजि-" इत्यादिना खच्प्रत्ययः ॥ क्लृप्तविवाहवेषा कन्येन्दुमती मनुष्यैर्वाह्यं परिवारेण परिजनेन शोभि चतुरस्रयानं चतुरस्रवाहनं शिबिकामध्यास्यारुह्य मञ्चान्तरे मञ्चमध्ये यो राजमार्गस्तं विवेश ॥

  तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये ।
  निपेतुरन्तःकरणैनरेन्द्रा देहैः स्थिताः केवलमासनेषु ॥ ११ ॥

 तस्मिन्निति ॥ नेत्रशतानामकलक्ष्य एकदृश्ये कन्यामये कन्यारूपे तस्मिन्विधातुर्विधानातिशये सृष्टिविशेषे नरेन्द्रा अन्तःकरणैर्निपेतुः । आसनेषु देहः केवलं

देहेरेव स्थिताः ॥ देहानपि विस्मृत्य तत्रैव दत्तचित्ता बभूवुरित्यर्थः ॥ अन्तःकरणकर्तृके निपतने नरेन्द्राणां कर्तृत्वव्यपदेश आदरातिशयार्थः ॥


  1. शिखाभाषितकेतुमाले; शिखाभावितकेतुमाले.
  2. आश्रितानाम्,
  3. शिखण्डिनाम्.
  4. चतुरं
    च यानम्.