तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः।
प्रवालशोभा इव पादपानां शृङ्गारचेष्टा विविधा बभूवुः॥१२॥
तामिति ॥ तामिन्दुमतीं प्रति । अभिव्यक्तमनोरथानां प्ररूढाभिलाषाणां महीपतीनां राज्ञां प्रणयाग्रदूत्यः । प्रणयः प्रार्थना प्रेम वा ॥ “प्रणयास्त्वमी । विस्रम्भयाच्ञाप्रेमाणः" इत्यमरः। प्रणयेष्वग्रदूत्यः प्रथमदूतिकाः ॥ प्रणयप्रकाशकत्वसाम्याद्दूतीत्वव्यपदेशः । विविधाः शृङ्गारचेष्टाः शृङ्गारविकाराः पादपानां प्रवालशोभाः पल्लवसंपद इव बभूवुरुत्पन्नाः॥ अत्र शृङ्गारलक्षणं रससुधाकरे- "विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः । नीता सदस्यरस्यत्वं रतिः शृङ्गार उच्यते" ॥ रतिरिच्छाविशेषः। तच्चोक्तं तत्रैव-“यूनोरन्योन्यविषयस्थायिनीच्छा रतिः स्मृता" इति ॥ चेष्टाशब्देन तदनुभावविशेषा उच्यन्ते । तेऽपि तत्रैवोक्ताः- "भावं मनोगतं साक्षात्स्वहेतुं व्यञ्जयन्ति ये । तेऽनुभावा इति ख्याता भ्रूविक्षेपस्मितादयः। ते चतुर्धा चित्तगात्रवाग्बुद्ध्यारम्भसंभवाः" इति ॥ तत्र गात्रारम्भसंभवांश्चेष्टाशब्दोक्ताननुभावान् “कश्चित्-" इत्यादिभिः श्लोकैर्वक्ष्यति ॥ शृङ्गाराभासश्चायम् । एकत्रैव प्रतिपादनात् । तदुक्तम् - एकत्रैवानुरागश्चेत्तिर्यक्शब्दगतोऽपि वा । योषितां बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः" इति ॥
" शृङ्गारचेष्टा बभूवुः" इत्युक्तम् । ता एव दर्शयति-
कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् ।
रजोभिर[१]न्तःपरिवेषबन्धि लीलारविन्दं भ्रमयांचकार ॥१३॥
कश्चिदिति ॥ कश्चिद्राजा कराभ्यां पाणिभ्यामुपगूढनालं गृहीतनालम् । आलोलैश्चञ्चलैः पत्रैरभिहतास्ताडिता द्विरेफा भ्रमरा येन तत्तथोक्तम् । रजोभिः परागैरन्तःपरिवेषं मण्डलं बध्नातीत्यन्तःपरिवेषबन्धि । लीलारविन्दं भ्रमयांचकार।। करस्थलीलारविन्दवत्त्वयाहं भ्रमयितव्य इति नृपाभिप्रायः। हस्तपूर्णकोऽयमपलक्षणक इतीन्दुमत्यभिप्रायः॥
विस्रस्तमिति ॥विलसनशीलो विलासी ॥ “वौ कषलसकत्थस्रम्भः" इति घिनुण्प्रत्ययः ॥ अपरो राजांसाद्विस्रस्तं रत्नानुविद्धं रत्नखचितं यदङ्गदं केयूरं तस्य
कोटिलग्नं प्रालम्बमृजुलम्बिनीं स्रजम् ।। "पालम्बमृजुलम्बि स्यात्कण्ठात्" इत्यमरः ॥ "प्रावारम्" इति पाठे तूत्तरीयं वस्त्रम् ।। उत्कृष्योध्दृत्य साचीकृतं तिर्यक्कृतं