पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१२४

पुटमेतत् सुपुष्टितम्
( १२२ )
रघुवंशे

चारु वक्त्रं यस्य स तथोक्तः सन्यथावकाशं स्वस्थानं निनाय ॥ प्रावारोत्क्षेपणच्छलेनाहं त्वामेवं परिरप्स्य इति नृपाभिप्रायः। गोपनीयं किंचिदङ्गेऽस्ति ततोऽयं प्रवृणुत इतीन्दुमत्यभिप्रायः॥

  आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशो[१]भः ।
  ति[२]र्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ।। १५॥

 आकुञ्चितेति ॥ ततः पूर्वोक्तादन्योऽपरो राजा किंचित्समावर्जितनेत्रशोभ ईपदर्वाक्पातितनेत्रशोभः सन् । आकुञ्चिता आभुग्ना अग्राङ्गुलयो यस्य तेन तिर्यग्विसंसर्पिण्यो नखप्रभा यस्य तेन च पादेन हैमं हिरण्मयं पीठं पादपीठं विलिलेख लिखितवान् ॥ पादाङ्गुलीनामाकुञ्चनेन त्वं मत्समीपमागच्छेति नृपाभिप्रायः। भूमिविलेखकोऽयमपलक्षणक इतीन्दुमत्याशयः । भूमिविलेखनं तु लक्ष्मीविनाशहेतुः ॥

  निवेश्य वामं भुजमासनार्धे तत्संनिवेशादधिकोन्नतांसः ।
  कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परोऽभूत् ॥१६॥

 निवेश्येति ॥ कश्चिद्राजा वामं भुजमासनार्धे सिंहासनैकदेशे निवेश्य संस्थाप्य तत्संनिवेशात्तस्य वामभुजस्य संनिवेशात्संस्थापनादधिकोन्नतोऽसो वामांस एव यस्य स तथोक्तः सन् । विवृत्ते परावृत्ते त्रिके त्रिकप्रदेशे भिन्नहारो लुण्ठितहारः सन् ॥ “पृष्ठवंशाधरे त्रिकम्" इत्यमरः ।। सुहृत्समाभाषणतत्परोऽभूत् । वामपार्श्ववर्तिनैव मित्रेण संभाषितुं प्रवृत्त इत्यर्थः । अत एव विवृत्तत्रिकत्वं घटते ॥ त्वया वामाङ्गे निवेशितया सहैवं वार्तां करिष्य इति नृपाभिप्रायः। परं दृष्ट्वा पराङ्मुखोऽयं न कार्यकर्तेतीन्दुमत्यभिप्रायः ॥

  विलासिनीविभ्रमदन्तपत्रमापाण्डुरं केतकबर्हमन्यः ।
  प्रियानितम्बोचितसंनिवेशैर्विपाटयामास युवा नखाग्रैः ॥१७॥

 विलासिनीति ॥ अन्यो युवा विलासिन्याः प्रियाया विभ्रमार्थं दन्तपत्रं दन्तपत्रभूतमापाण्डुरं केतकबर्हं केतकदलम् ॥ "दलेऽपि बर्हम्" इत्यमरः ॥ प्रियानितम्ब उचितसंनिवेशैरभ्यस्तनिक्षेपणैर्नखागौर्विपाटयामास विदारयामास ॥ अहं तव नितम्ब एवं नखव्रणादीन्दास्यामीति नृपाशयः । तृणच्छेदकवत्पत्रपाटकोऽयमपलक्षणक इतीन्दुमत्याशयः॥

  कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन ।
  रत्नाङ्गुलीयप्रभयानुविद्धानुदीरयामास सलीलमक्षान् ॥१८॥


  1. शोभी.
  2. रत्नांशुसंपृक्तनखप्रभेण.