पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१२५

पुटमेतत् सुपुष्टितम्
( १२३ )
षष्ठः सर्गः ।

 कुशेशयेति ॥ कश्चिद्राजा कुशेशयं शतपत्रमिवाताम्रं तलं यस्य तेन ॥ “शतपत्रं कुशेशयम्" इत्यमरः।। रेखारूपो ध्वजो लाञ्छनं यस्य तेन करेण । अङ्गुलिषु भवान्यङ्गलीयान्यूर्मिकाः ॥ “अलङ्गीयकमूर्मिका" इत्यमरः ॥ "जिह्वामूलाङ्गुलेश्छः" इति छप्रत्ययः ।रत्नानामङ्गुलीयानि तेषां प्रभयानुविद्धान्व्याप्तानक्षान्पाशान् ॥ "अक्षास्तु देवनाः पाशकाश्च ते" इत्यमरः ॥ सलीलमुदीरयामासोच्चिक्षेप ॥ अहं त्वया सहैवं रंस्य इति नृपाभिप्रायः । अक्षचातुर्ये कापुरुषोऽयमितीन्दुमत्यभिप्रायः। “अक्षैर्मा दीव्येत" इति श्रुतिनिषेधात् ॥

  कश्चिद्य[१]थाभागमवस्थितेऽपि स्वसंनि[२]वेशाद्व्यतिलङ्घिनीव ।
  [३]ज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ।।१९॥

 कश्चिदिति ॥ कश्चिद्यथाभागं यथास्थानमवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव स्वस्थानाच्चलित इव किरीटे वज्राणां किरीटगतानामंशवो गर्भे येषां तान्यङ्गुलिरन्ध्राणि यस्य तमेकं करं व्यापारयामास ॥ किरीटवन्मम शिरसि स्थितामपि त्वां भारं न मन्य इति नृपाभिमायः । शिरसि न्यस्तहस्तोऽयमपलक्षण इतीन्दुमत्यभिप्रायः॥

  ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी।
  प्राक्संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत्सुनन्दा ॥२०॥

 तत इति॥ ततोऽनन्तरं नृपाणां श्रुतवृत्तवंशा।श्रुतनृपवृत्तवंशेत्यर्थः।। सापेक्षत्वेऽपि गमकत्वात्समासः॥प्रगल्भा वाग्मिनी सुनन्दा सुनन्दाख्या प्रतिहारं रक्षतीति प्रतिहाररक्षी द्वारपालिका ॥ कर्मण्यण्प्रत्ययः ॥" टिड्ढाणञ्-" इत्यादिना ङीप् ॥ प्राक्प्रथमं कुमारीमिन्दुमतीं मगधेश्वरस्य संनिकर्ष समीपं नीत्वा पुंवत्पुंसा तुल्यम् ॥ "तेन तुल्यं क्रिया चेद्वतिः" इति वतिप्रत्ययः॥ अवदत् ॥

  असौ शरण्यः शरणोन्मुखानामगाधसत्त्वो मगधप्रतिष्ठः ।
  राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा ॥ २१॥

 असाविति॥ असौ राजा । असाविति पुरोवर्तिनो निर्देशः॥ एवमुत्तरत्रापि द्रष्टव्यम् ॥ शरणोन्मुखानां शरणार्थिनां शरण्यः शरणे रक्षणे साधुः॥ “तत्र साधुः"

इति यत्प्रत्ययः॥ शरणं भवितुमर्हः शरण्य इति नाथनिरुक्तिर्निर्मूलैव ॥ अगाधसत्त्वो गम्भीरस्वभावः ॥ “सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः" इति


  1. यथास्थानम्.
  2. स्वसंनिवेश.
  3. वज्रांशुभिन्नाङ्गुलिरन्ध्रम्; वज्रांशुभिनाङ्गुलिरत्नम्.