पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१२६

पुटमेतत् सुपुष्टितम्
( १२४ )
रघुवंशे

विश्वः ॥ मगधा जनपदाः । तेषु प्रतिष्ठास्पदं यस्य स मगधप्रतिष्ठः ॥" प्रतिष्ठा कृत्यमास्पदम्" इत्यमरः ॥ प्रजारञ्जने लब्धवर्णो विचक्षणः । यद्वा प्रजारञ्जनेन लब्धोत्कर्षः । पराञ्छत्रूंस्तापयतीति परंतपः॥परंतपाख्यः ॥ “द्विषत्परयोस्तापेः" इति खच्प्रत्ययः । “खचि ह्रस्वः" इति ह्रस्वः । " अरुर्द्विषदजन्तस्य मुम्" इति मुमागमः ॥ नामेति प्रसिद्धौ । यथार्थनामा । शत्रुसंतापनादिति भावः॥

  कामं नृपाः स[१]न्तु स[२]हस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् ।
  नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः॥२२॥

 काममिति ॥ अन्ये नृपाः कामं सहस्रशः सन्तु । भूमिमनेन राजन्वतीं शोभनराजवतीमाहुः । नैतादृक्कश्चिदस्तीत्यर्थः ॥ "सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान्" इत्यमरः ॥ “ राजन्वान्सौराज्ये” इति निपातनात्साधुः । तथाहि । नक्षत्रैरश्विन्यादिभिस्ताराभिः साधारणैर्ज्योतिर्भिग्रहैर्भौमादिभिश्च संकुलापि रात्रिश्चन्द्रमसैव ज्योतिरस्या अस्तीति ज्योतिष्मती । नान्येन ज्योतिषेत्यर्थः॥

  क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसहस्रनेत्रः।
  शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकांश्चकार ॥२३॥

 क्रियेति । अयं परंतपोऽध्वराणां क्रतूनां क्रियाप्रबन्धादनुष्ठानसातत्यात् । अविच्छिन्नादनुष्ठानादित्यर्थः । अजस्रं नित्यमाहूतसहस्रनेत्रः संश्चिरं शच्या अलकान्पाण्डुकपोलयोर्लम्बान्स्रस्तान् ॥ पचाद्यच् ॥ मन्दारैः कल्पद्रुमकुसुमैः शून्यांश्चकार ॥ प्रोषितभर्तृका हि केशसंस्कारं न कुर्वन्ति । “प्रोषिते मलिना कृशा" इति । "क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका" इति च स्मरणात् ॥

  अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे ।
  प्रासादवातायनसंश्रि[३]तानां नेत्रोत्सवं पुष्पपुराङ्गनानाम् ॥२४॥

 अनेनेति ॥ वरेण्येन वरणीयेन ॥ वृणोतेरौणादिक एण्यप्रत्ययः। अनेन राज्ञा गृह्यमाणं पाणिमिच्छसि चेत् । पाणिग्रहणमिच्छसि चेदित्यर्थः। प्रवेशे प्रवेशकाले प्रासादवातायनसंश्रितानां राजभवनगवाक्षस्थितानां पुष्पपुराङ्गनानां पाटलिपुराङ्गनानां नेत्रोत्सवं कुरु ॥ सर्वोत्तमानां तासामपि दर्शनीया भविष्यसीति भावः॥


  1. सन्ति.
  2. सहस्रसंख्याः.
  3. संस्थितानाम्,