पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१२७

पुटमेतत् सुपुष्टितम्
( १२५ )
षष्ठः सर्गः ।

  एवं तयोक्ते तमवेक्ष्य किंचिद्विस्रंसिदूर्वाङ्कमधूकमाला ।
  ऋजुप्रणामक्रिययै[१]व तन्वी प्रत्यादिदेशैनमभाषमाणा ॥२५॥

 एवमिति ॥ एवं तया सुनन्दयोक्ते सति तं परंतपमवेक्ष्य किंचिद्विस्रंसिनी दूर्वाङ्का दूर्वाचिह्ना मधूकमाला गुडपुष्पमाला यस्याः सा ॥ “मधूके तु गुडपुष्पमधुद्रुमौ" इत्यमरः॥ वरणे शिथिलप्रयत्नेति भावः । तन्वीन्दुमत्येनं नृपमभाषमाणर्ज्वा | भावशून्यया प्रणामक्रिययैव प्रत्यादिदेश परिजहार ॥

  तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय ।
  समीरणोत्थेव त[२]रंगलेखा पद्मान्तरं मानसराजहंसीम् ॥ २६ ॥

 तामिति ॥ सैव नान्या । चित्तज्ञत्वादिति भावः । वेत्रग्रहणे नियुक्ता दौवारिकी सुनन्दा तां राजसुतां राजान्तरमन्यराजानं निनाय ॥ नयतिर्द्विकर्मकः॥ कथमिव । समीरणोत्था वातोत्पन्ना तरंगलेखोर्मिपङ्क्तिर्मानसे सरसि या राजहंसी तां पद्मान्तरमिव ॥

  जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः।
  वि[३]नीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते ॥२७॥

 जगादेति ॥ एनामिन्दुमतीं जगाद । किमिति । अयमङ्गनाथोऽङ्गदेशाधीश्वर: सुराङ्गनाभिः प्रार्थिता कामिता यौवनश्रीर्यस्य स तथोक्तः ॥ पुरा किलैनमिन्द्रसाहाय्यार्थमिन्द्रपुरगामिनमकामयन्ताप्सरस इति प्रसिद्धिः ॥ किंच। सूत्रकारैर्गजशास्त्रवद्भिः पालकादिभिर्महर्षिभिर्विनीतनागः शिक्षितगजः। किलेत्यैतिह्ये । अत एवं भूमिगतोऽप्यैन्द्रं पदमैश्वर्यं भुङ्क्ते । भूर्लोक एव स्वर्गसुखमनुभवतीत्यर्थः। गजाप्सरोदेवर्षिसेव्यत्वमैन्द्रपदशब्दार्थः ॥ पुरा किल कुतश्चिच्छापकारणाद्भुवमवतीर्णं दिग्गजवर्गमालोक्य स्वयमशक्तेरिन्द्राभ्यनुज्ञयानीतैर्देवर्षिभिः प्रणीतेन शास्त्रेण गजान्वशीकृत्य भुवि संप्रदायं पावर्तयदिति कथा गीयते ॥

  अनेन प[४]र्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु ।
  प्रत्यर्पिताः शत्रुविलासिनीनामु[५]न्मुच्य सूत्रेण विनैव हाराः॥२८॥

 अनेनेति ॥ शत्रुविलासिनीनां स्तनेषु मुक्ताफलस्थूलतमानश्रुबिन्दून् ॥ “अस्रमश्रुणि शोणिते" इति विश्वः ॥ पर्यासयता प्रस्तारयता। भर्तृवधादिति भावः।

अनेनाङ्गनाथेनोन्मुच्याक्षिप्य सूत्रेण विना हारा एव प्रत्यर्पिताः । अविच्छिन्नाश्रुबिन्दुप्रवर्तनादुत्सूत्रहारार्पणमेव कृतमिवेत्युत्प्रेक्षा गम्यते ॥


  1. इव.
  2. तरंगमाला.
  3. विनीतभागः किल सूत्रकारैः; विनीतभागः किल सत्रकारैः.
  4. पर्याश्रयता.
  5. आक्षिप्य.