पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१२८

पुटमेतत् सुपुष्टितम्
( १२६ )
रघुवंशे


  निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्रीश्च सरस्वती च ।
  कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि तयोस्तृतीया।।

 निसर्गेति ॥ निसर्गतः स्वभावतो भिन्नास्पदं भिन्नाश्रयम् । सहावस्थानवि- रोधीत्यर्थः । श्रीश्च सरखती चेति द्वयमस्मिन्नङ्गनाथ एकत्र संस्था स्थितिर्यस्य त- देकसंस्थम् । उभयमिह संगतमित्यर्थः । हे कल्याणि ॥ “बबादिभ्यश्च” इति डी॥ कान्त्या सूनृतया सत्यप्रियया गिरा च योग्या संसर्गार्हा त्वमेव तयोः श्रीसरस्व- त्योस्तृतीया । समानगुणयोर्युवयादापत्यं युज्यत एवेति भावः ॥ दक्षिणनायकत्वं चास्य ध्वन्यते ॥ तदुक्तम्-"तुल्योऽनेकत्र दक्षिणः" इति ॥

  अथाङ्गराजादवतार्य चक्षुर्या[१]हीति जन्यामवदत्कुमारी ।
  नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः३०

 अथेति ॥ अथ कुमार्यङ्गराजाचक्षुरवतार्य । अपनीयेत्यर्थः । जन्यां मातृसखी- म् ॥ “जन्या मातृसखीमुदोः" इति विश्वः ॥ सुनन्दां याहि गच्छेत्यवदत् ॥ “या- तेति जन्यानवदत्" इति पाठे जनीं वधूं वहन्तीति जन्या वधूवन्धवः । तान्यात ग- छतेत्यवदत् ॥ “जन्यो वरवधूज्ञातिनियतुल्यहितेऽपि च” इति विश्वः ॥ अथवा जन्या वधूभृत्या ॥"भृत्याश्चापि नवोढायाः" इति केशवः ॥ संज्ञायां जन्येति य- त्मत्ययान्तो निपातः । यदत्राह वृत्तिकारः- “जनीं वधूं वहन्तीति जन्या जामा- तुर्वयस्याः" इति । यच्चामरः "जन्याः स्निग्धा वरस्य ये" इति। तत्सर्वमुपलक्षणार्थ- मित्यविरोधः ॥ न चायमराजनिषेधो दृश्यदोषान्नापि द्रष्टदोषादित्याह-नेत्या- दिना ॥ असावङ्गराजः काम्यः कमनीयो नेति न । किंतु काम्य एवेत्यर्थः । सा कुमारी च सम्यग्द्रष्टुं विवक्तुं न वेदेति न । वेदेत्यर्थः। किंतु लोको जनो भिन्नचिहि रुचिरमपि किंचित्कस्मैचिन रोचते॥ किं कुर्मो न हीच्छा नियन्तुं शक्यत इति भावः।।

  ततः परं दुःसहं द्वि[२]षद्भिर्नृपं नि[३]युक्ता प्रतिहारभूमौ
  निदर्शयामास वि[४]शेषदृश्यमिन्दुं नवोत्थानमिवेन्दुमत्यै ॥ ३१ ॥

 तत इति ॥ ततोऽनन्तरं प्रतिहारभूमौ द्वारदेशे नियुक्ता दौवारिकी ॥ "स्त्री द्वारं प्रतीहारः" इत्यमरः॥ द्विषद्भिः शत्रुभिर्दुःसहं दुःसहम् । शूरमित्यर्थः । विशेषेण दृश्यं दर्शनीयम् । रूपवन्तमित्यर्थः । परमन्यं नृपम् । नवोत्थानं नवोदय- मिन्दुमिव । इन्दुमत्यै निदर्शयामास ॥

  अवन्तिनाथोऽयमुदप्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः ।
  आरोग्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्रोल्लिखितो विभाति ॥३२


  1. यातेति यान्यामवदत्.
  2. परेषाम्.
  3. प्रयुक्ता.
  4. विशेषकान्तम