पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१२९

पुटमेतत् सुपुष्टितम्
( १२७ )
षष्ठः सर्गः ।

 अवन्तीति ॥ उदग्रबाहुर्दीर्घबाहुर्विशालवक्षास्तनुवृत्तमध्यः कुशवर्तुलमध्योऽयं राजावन्तिनाथोऽवन्तिदेशाधीश्वरः। त्वष्ट्रा विश्वकर्मणा । भर्तुस्तेजोवेगमसहमानया दुहित्रा संज्ञादेव्या प्रार्थितेनेति शेषः । चक्रभ्रमं चक्राकारं शस्त्रोत्तेजनयन्त्रम् ॥ भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुण्डाख्ये शिल्पियन्त्रके” इति विश्वः ॥ आरोप्य यत्नेनोल्लिखित उष्णतेजाः सूर्य इव । विभाति ॥ अत्र मार्कण्डेयः-" विश्वकर्मा त्वनुज्ञातः शाकद्वीपे विवस्वता । भ्रममारोप्य तत्तेजःशातनायोपचक्रमे" इति ॥

  अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि ।
  कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥३३॥

 अस्येति ॥ समग्रशक्तेः शक्तित्रयसंपन्नस्यास्यावन्तिनाथस्य प्रयाणेषु जैत्रयात्रास्वग्रेसरैर्वाजिभिरश्वैरुत्थितानि रजांसि सामन्तानां समन्ताद्भवानां राज्ञां ये शिखामणयश्चूडामणयस्तेषां प्रभामरोहास्तमयं तेजोऽङ्गुरनाशं कुर्वन्ति । नासीरैरेवास्य शत्रवः पराजीयन्त इति भावः ॥

  असौ महाकालनिकेतनस्य व[१]सन्नदूरे किल चन्द्रमौलेः ।
  [२]मि[३]स्रपक्षेऽपि सह प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान्३४॥

 असाविति ॥ असाववन्तिनाथः । महाकालं नाम स्थानविशेषः । तदेव निकेतनं स्थानं यस्य तस्य चन्द्रमौलेरीश्वरस्यादूरे समीपे वसन् । अत एव हेतोस्तमिस्रपक्षे कृष्णपक्षेऽपि प्रियाभिः सह ज्योत्स्नावतः प्रदोषान्रात्रीर्निर्विशत्यनुभवति किल । नित्यज्योत्स्नाविहारत्वमेतस्यैव नान्ययेति भावः॥

  अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते ।
  सि<ref>क्षिप्रा.<ref>प्रातरंगानिलकम्पितासु विहर्तुमुद्यानपरंपरासु ॥३५॥

 अनेनेति ॥ रम्भे कदलीस्तम्भाविवोरू यस्याः सा रम्भोरूस्तस्याः संबोधनम्। हे रम्भोरु ॥ "ऊरूत्तरपदादौपम्ये" इत्यूङ्प्रत्ययः । नदीत्वाद्ध्रस्वः ॥ यूनानेन पार्थिवेन सह । सिप्रा नाम तत्रत्या नदी । तस्यास्तरंगाणामनिलेन कम्पितासूद्यानानां परंपरासु पङ्क्तिषु विहर्तुं ते तव मनसो रुचिः कच्चित् । स्पृहास्ति किमित्यर्थः । “ अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्" इत्यमरः ॥

  तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के ।
  बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥३६॥


  1. चन्द्रार्धमौलेर्निवसन्नदूरे.
  2. दिवापि बालान्तरचन्द्रिकाणां नारीसखः स्पर्शसुखानि भुङ्क्ते.
  3. तामित्रपक्षे.