पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१३

पुटमेतत् सुपुष्टितम्
( ११ )
प्रथमः सर्गः ।

तुर्थी ॥ एवमुभौ संपदो विनिमयेन परस्परमादानप्रतिदानाभ्यां भुवनद्वयं दधतुः पुपुषतुः ॥ राजा यज्ञैरिन्द्रलोकमिन्द्रश्चोदकेन भूलोकं पुपोषेत्यर्थः ॥ उक्तं च दण्डनीतौ--"राजा त्वर्थान्समाहृत्य कुर्यादिन्द्रमहोत्सवम् । प्रीणितो मेघवाहस्तु महतीं वृष्टिमावहेत्" इति ॥

  न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
  व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥ २७ ॥

 न किलेति॥ राजानोऽन्ये नृपा रक्षितुर्भयेभ्यस्त्रातुस्तस्य राज्ञो यशो नानुययुः किल नानुचक्रुः खलु ॥ कुतः । यद्यस्मात्कारणात्तस्करता चौर्यं परस्वेभ्यः स्वविषयभूतेभ्यो व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता । अपहार्यान्तराभावात्तस्करशब्द एवापहृत इत्यर्थः ॥ अथवा । "अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि" इति न्यायेन शब्दे स्थिता स्फुरिता न तु स्वरूपतोऽस्तीत्यर्थः ॥

  द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् ।
  त्याज्यो दुष्टः प्रियोऽप्यासीद[]ङ्गुलीवोरगक्षता ॥ २८ ॥

 द्वेष्य इति॥ शिष्टो जनो द्वेष्यः शत्रुरपि । आर्तस्य रोगिण औषधं यथौषधमिव । तस्य संमतोऽनुमत आसीत् । दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि । उरगक्षता सर्पदष्टाङ्गुलीव । "छिन्द्याद्बाहुमपि दुष्टात्मनः" इति न्यायात् । त्याज्य आसीत् ॥ तस्य शिष्ट एव बन्धुर्दुष्ट एव शत्रुरित्यर्थः ॥

 तस्य परोपकारित्वमाह--

  तं वेधा विदधे नूनं महाभूतसमाधिना।
  तथाहि सर्वे तस्यासन्परार्थैकफला गुणाः ॥ २९ ॥

 तमिति ॥ वेधाः स्रष्टा ॥ "स्रष्टा प्रजापतिर्वेधाः" इत्यमरः ॥ तं दिलीपम् । समाधीयतेऽनेनेति समाधिः कारणसामग्री । महाभूतानां यः समाधिस्तेन महाभूतसमाधिना विदधे ससर्ज । नूनं ध्रुवम् । इत्युत्प्रेक्षा ॥ तथाहि । तस्य राज्ञः सर्वे गुणा रूपरसादिमहाभूतगुणवदेव परार्थः परमयोजनमेवैकं मुख्यं फलं येषां ते तथोक्ता आसन् ॥ महाभूतगणोपमानेन कारणगणाः कार्यM संक्रामन्तीति न्यायः सूचितः ॥

  स वेलावप्रवलयां परिखीकृतसागराम् ।
  अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥ ३० ॥


  1. दष्टोऽङ्गुष्ठ इवाहिना.