पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१३०

पुटमेतत् सुपुष्टितम्
( १२८ )
रघुवंशे

 तस्मिन्निति ॥उत्तमसौकुमार्योत्कृष्टानमार्दवा सेन्दुमती। अभिद्योतितान्युल्लसितानि बन्धव एव पद्मानि येन तस्मिन् । प्रतापेन तेजसा संशोषिताः शत्रव एव पङ्काः कर्दमा येन तस्मिन् । तस्मिन्नवन्तिनाथे कुमुद्वती ॥ "कुमुदनडवेतसेभ्यो ड्मतुप्" इति ड्मतुप्प्रत्ययः ॥ भानुमत्यंशुमतीव । भावं चित्तं न बबन्ध । न तत्रानुरागमकरोदित्यर्थः ।। बन्धूनां पद्मत्वेन शत्रूणां पङ्कत्वेन च निरूपणं राज्ञः सूर्यसाम्यार्थम् ॥

  तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् ।
  विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा ॥३७॥

 तामिति ॥ सुनन्दा तामरसान्तराभां पद्मोदरतुल्यकान्तिम् । कनकगौरीमित्यर्थः । गुणैरनूनाम् । अधिकामित्यर्थः । शोभना दन्ता यस्याः सा सुदती ॥ "वयसि दन्तस्य दत्" इति दत्रादेशः। “उगितश्च" इति ङीप्॥ तां प्रकृतां प्रसिद्धां वा विधातुर्ललितां सृष्टिम् । मधुरनिर्माणां स्त्रियमित्यर्थः । अनुगता आपो येषु तेऽनूपा नाम देशाः ॥ “ऋक्पूरब्धूःपथामानक्षे" इत्यप्रत्ययः समासान्तः। “ऊदनोर्देशे" इत्यूदादेशः ॥ तेषां राज्ञोऽनूपराजस्याग्रतो विधाय व्यवस्थाप्य भूयः पुनर्जगाद ॥

  सङ्ग्रामनिर्विष्टसहस्रबाहुरष्टादशद्वीपनिखातयूपः ।
  अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः ॥३८॥

 सङ्ग्रामेति ॥ सङ्ग्रामेषु युद्धेषु निर्विष्टा अनुभूताः सहस्रं बाहवो यस्य स तथोक्तः । युद्धादन्यत्र द्विभुज एव दृश्यत इत्यर्थः । अष्टादशसु द्वीपेषु निखाता स्थापिता यूपा येन स तथोक्तः । सर्वक्रतुयाजी सार्वभौमश्चेति भावः । जरायुजादिसर्वभूतरञ्जनादनन्यसाधारणो राजशब्दो यस्य स तथोक्तः। योगी । ब्रह्मविद्वानित्यर्थः ॥ स किल भगवतो दत्तात्रेयाल्लब्धयोग इति प्रसिद्धिः । कृतवीर्यस्यापत्यं पुमान्कार्तवीर्यो नाम राजा बभूव किलेति । अयं चास्य महिमा सर्वोऽपि दत्तात्रेयवरप्रसादलब्ध इति भारते दृश्यते ॥

  अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् ।
  अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥३९॥

 अकार्येति ॥ विनेता शिक्षको यः कार्तवीर्यः । अकार्यस्यासत्कार्यस्य चिन्तया । अहं चौर्यादिकं करिष्यामीति बुद्ध्या । समकालमेककालमेव यथा तथा पुरस्तादग्रे चापधरः प्रादुर्भवन्सन् । प्रजानां जनानाम् ॥ "प्रजा स्यात्संततौ जने इत्यमरः ॥ अन्तःशरीरेष्वन्तःकरणेषु । शरीरशब्देनेन्द्रियं लक्ष्यते । अविनयमपि प्रत्यादिदेश । मानसापराधमपि निवारयामासेसर्थः । अन्ये तु वाक्कायापराधमात्रप्रतिकर्तार इति भावः॥