पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१३१

पुटमेतत् सुपुष्टितम्
( १२९ )
षष्ठः सर्गः ।

  ज्याबन्धनिष्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरंपरेण ।
  कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात् ॥ ४०॥

 ज्याबन्धेति । ज्याया मौर्व्या बन्धेन बन्धनेन निष्पन्दा निश्चेष्टा भुजा यस्य तेन विनिःश्वसती ज्याबन्धोपरोधाद्दीर्घं निःश्वसती वक्त्रपरंपरा दशमुखी यस्य तेन निर्जितवासवेनेन्द्रविजयिना । अत्रेन्द्रादयोऽप्यनेन जितप्राया एवेति भावः । लङ्केश्वरेण दशास्येन यस्य कार्तवीर्यस्य कारागृहे बन्धनागारे । “कारा स्याद्बन्धनालये" इत्यमरः ॥ आ प्रसादादनुग्रहपर्यन्तमुषितं स्थितम् ॥ " नपुंसके भावे क्तः" ॥ एतत्प्रसाद एव तस्य मोक्षोपायो न तु क्षात्रमिति भावः ॥

  तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी ।
  येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् ॥ ४१ ॥

 तस्येति ॥ आगमवृद्धसेवी श्रुतवृद्धसेवी प्रतीप इति । ख्यात इति शेषः । एष भूपतिस्तस्य कार्तवीर्यस्यान्वये वंशे जातः । येन प्रतीपेन संश्रयस्याश्रयस्य पुंसो दोषैर्व्यसनादिभी रूढमुत्पन्नं श्रियः संबन्धि स्वभावलोला प्रकृतिचञ्चलेत्येवंरूपमयशो दुष्कीर्तिः प्रमृष्टं निरस्तम् ॥ दुष्टाश्रयत्यागशीलायाः श्रियः प्रकृतिचापलप्रवादो मूढजनपरिकल्पित इत्यर्थः ॥ अयं तु दोषराहित्यान्न कदाचिदपि श्रिया त्यज्यत इति भावः ॥

  आयोधने कृष्णगतिं सहायमवाप्य यः क्षत्रियकालरात्रिम् ।
  धारां शि[१]तां रामपरश्वधस्य संभावयत्यु[२]त्पलपत्रसाराम् ॥४२॥

 आयोधन इति ॥ यः प्रतीप आयोधने युद्धे कृष्णगतिं कृष्णवर्त्मानमग्निं सहायमवाप्य क्षत्रियाणां कालरात्रिम् । संहाररात्रिमित्यर्थः। रामपरश्वधस्य जामदग्न्यपरशोः ॥ “द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः इत्यमरः ॥ शितां तीक्ष्णां धारां मुखम् ॥ “खड्गादीनां च निशितमुखे धारा प्रकीर्तिता" इति विश्वः ॥ उत्पलपत्रस्य सार इव सारो यस्यास्तां तथाभूतां संभावयति मन्यते ॥ एतन्नगरजिगीषयागतान्रिपून्वयमेव धक्ष्यामीति भगवता वैश्वानरेण दत्तवरोऽयं राजा । दह्यन्ते च तथागताः शत्रव इति भारते कथानुसंधेया ॥

  अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम् ।
  प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः॥४३॥

अस्येति ॥ दीर्घबाहोरस्य प्रतीपस्वाङ्कलक्ष्मीर्भव । एनं वृणीष्वेत्यर्थः ॥ अने-


१७
 
  1. सिताम्.
  2. उत्पलपत्रसारम्.