पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१३२

पुटमेतत् सुपुष्टितम्
( १३० )
रघुवंशे

नायं विष्णुतुल्य इति ध्वन्यते ॥ माहिष्मती नामास्य नगरी । तस्या वप्रः प्राकार एव नितम्बः । तस्य काञ्चीं रशनाभूतां जलानां वेण्या प्रवाहेण रम्याम् ॥ "ओघः प्रवाहो वेणी च" इति हलायुधः ॥ रेवां नर्मदा प्रासादजालैर्गवाक्षैः॥ “जालं समूह आनायो गवाक्षक्षारकावपि" इत्यमरः ॥ प्रेक्षितुं काम इच्छास्ति यदि ॥

  तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव ।
  शरत्प्रमृष्टाम्बुधरोपरोधःशशीव पर्याप्तकलो नलिन्याः॥४४॥

 तस्या इति ॥ प्रकामं प्रियं प्रीतिकरं दर्शनं यस्य सोऽपि । दर्शनीयोऽपीत्यर्थः । स क्षितीशः । शरदा प्रमृष्टाम्बुधरोपरोधो निरस्तमेघावरणः पर्याप्तकलः पूर्णकालः शशी नलिन्या इव । तस्या इन्दुमसा रुचये न बभूव । रुचिं नाजीजनदित्यर्थः । लोको भिन्नरुचिरिति भावः ॥

  सा शूरसेनाधिपतिं सुषेणमुद्दिश्य लो[१]कान्तरगीतकीर्तिम् ।
  आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी॥४५॥

 सेति ॥ लोकान्तरे स्वर्गादावपि गीतकीर्तिमाचारेण शुद्धयोरुभयोर्वंशयोर्मातापितृकुलयोर्दीपं प्रकाशकम् ॥ उभयवंशेत्यत्रोभयपक्षवन्निर्वाहः॥ शूरसेनानां देशानामधिपतिं सुषेणं नाम नृपतिमुद्दिश्याभिसंधाय शुद्धान्तरक्ष्यान्तःपुरपालिकया ॥ “कर्मण्यण्" । " टिड्ढाणञ्-" इति ङीप् ॥ सा कुमारी जगदे ॥

  नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रित्य परस्परेण ।
  सिद्धाश्रमं शान्तमिवैत्य सत्त्वैर्नैसर्गिकोऽप्युत्ससृजे विरोधः॥४६॥

 नीपेति ॥ यज्वा विधिवदिष्टवान् ॥ “ सुयजोर्ङ्वनिप्" इति ङ्वनिप्प्रत्ययः॥ एष पार्थिवः। नीपो नामान्वयोऽस्येति नीपान्वयो नीपवंशजः। यं सुषेणमाश्रित्य गुणैर्निर्ज्ञानमौनादिभिः । शान्तं प्रसन्नं सिद्धाश्रममृष्याश्रममेत्य प्राप्य सत्त्वैर्गजसिंहादिभिः प्राणिभिरिव । नैसर्गिकः स्वाभाविकोऽपि परस्परेण विरोध उत्ससृजेत्यक्तः ॥

  यस्या[२]त्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्टा ।
  हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविषह्यं रिपुमन्दिरेषु ॥ ४७॥

 यस्येति ॥ हिमांशोः कान्तिश्चन्द्रकिरणा इव नयनयोरभिरामा यस्य सुषेणस्य कान्तिः शोभात्मगेहे स्वभवने संनिविष्टा संक्रान्ता । अविषह्यं विसोढुमशक्यं तेज:

प्रतापस्तु । हर्म्याग्रेषु धनिकमन्दिरप्रान्तेषु ॥ "हर्म्यादि धनिनां वासः" इत्यमरः।।


  1. देशान्तर.
  2. आत्मदेहे.