पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१३४

पुटमेतत् सुपुष्टितम्
( १३२ )
रघुवंशे

दरीषु ॥"दरी तु कन्दरो वा स्त्री" इत्यमरः ॥ अम्भसः पृषतैर्बिन्दुभिरुक्षितानि सिक्तानि । शिलायां भवं शैलेयम् ॥ “शिलाजतु च शैलेयम्" इति यादवः।। यद्वा शिलापुष्पाख्य ओषधिविशेषः ॥ “कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु । शैलेयम्" इत्यमरः ॥ "शिलाया ढः" इत्यत्र शिलाया इति योगविभागादिवार्थे ढप्रत्ययः ।। तद्गन्धवन्ति शैलेयगन्धीनि शिलातलान्यध्यास्याधिष्ठाय कलापिनांं बर्हिणां नृत्यं पश्य ॥

  नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूभवित्री।
  महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ॥५२॥

 नृपमिति ॥ “स्यादावर्तोऽम्भसा भ्रमः" इत्यमरः ॥ आवर्तमनोज्ञा नाभिः यस्याः सा । इदं च नदीसाम्यार्थमुक्तम् । अन्यवधूरन्यपत्नी भवित्री भाविनी सा कुमारी तं नृपम् । सागरगामिनी सागरं गन्त्री स्रोतोवहा नदी मार्गवशादुपेतं प्राप्तंं महीधरं पर्वतमिव । व्यत्यगादतीत्य गता ॥

  अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् ।
  आसेदुषींं सादितशत्रुपक्षं बालामबालेन्दुमुखीं बभाषे ॥५३॥

 अथेति॥अथ भुजिष्या किंकरी सुनन्दा ॥ "भुजिष्या किंकरी मता" इति हलायुधः॥ अङ्गदाश्लिष्टभुजंं केयूरनद्धबाहुं सादितशत्रुपक्षंं विनाशितशत्रुवर्गंं हेमाङ्गदंं नाम कलिङ्गनाथमासेदुषीमासन्नामबालेन्दुमुखींं पूर्णेन्दुमुखींं बालामिन्दुमतीं बभाषे॥

  असौ महेन्द्रादिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च ।
  यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः॥५४॥

 असाविति ॥ महेन्द्राद्रेः समानसारस्तुल्यसत्त्वोऽसौ हेमाङ्गदो महेन्द्रस्य नाम कुलपर्वतस्य महोदधेश्च पतिः स्वामी ॥ “महेन्द्रमहोदधी एवास्य गिरिजलदुर्गे" इति भावः ॥ यस्य यात्रासु क्षरतां मदस्राविणां सैन्यगजानां छलेन महेन्द्रो महेन्द्राद्रिः पुरोऽग्रे यातीव । अद्रिकल्पा अस्य गजा इत्यर्थः ॥

  ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः ।
  रि[१]पुश्रियां साञ्जनबाष्पसेके ब[२]न्दीकृतानामिव पद्धती द्वे॥५५॥

 ज्याघातेति ॥ सुभुजश्चापभृतां पुरोगो धनुर्धराग्रेसरो यः। बन्दीकृतानां प्रगृहीतानाम् ॥ “प्रग्रहोपग्रहौ बन्द्याम्" इत्यमरः ॥ रिपुश्रियां साञ्जनो बाष्पसेको

ययोस्ते । कज्जलमिश्राश्रुसिक्ते इत्यर्थः । पद्धती इव । द्वे ज्याघातानां मौर्वाकिणानां


  1. रिपुश्रियाः; रिपुश्रियः.
  2. बन्दीकृतायाः.