हे चकोराक्षि, इतो विलोकयेति पूर्वानुशिष्ट पूर्वमुक्तां भोजस्य राज्ञो गोत्रापत्यर्ं स्त्रियं भोज्यामिन्दुमतीम् ॥ “क्रौड्यादिभ्यश्च" इत्यत्र भोजाक्षत्रियादित्युपर्सख्यानात्ष्यङ्प्रत्ययः । “यङ्श्चाप्" इति चाप् ॥ निजगाद । इतो विलोकयेति पूर्वमुक्ता पश्चाद्वक्तव्यं निजगादेत्यर्थः ॥
पाण्ड्य इति ॥ अंसयोरर्पिताः । लम्बन्त इति लम्बाः । हारा यस्य सः। हरिचन्दनेन गोशीर्षाख्येन चन्दनेन ॥ “तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्" इत्यमरः ॥ क्लृप्ताङ्गरागः सिद्धानुलेपनोऽयं पाण्डूनां जनपदानां राजा पाण्ड्यः ।। "पाण्डोर्जनपदशब्दात् क्षत्त्रियाड्ड्यण् वक्तव्यः" इति ड्यण्प्रत्ययः । तस्य राजन्यपत्यवदिति वचनात् ॥ बालातपेन रक्ता अरुणाः सानवो यस्य स सनिर्झरोद्गारः प्रवाहस्यन्दनसहितः । “वारिप्रवाहो निर्झरो झरः" इत्यमरः ॥ अद्रिराज इवाभाति॥
विन्ध्यस्य संस्तम्भयिता महादेर्निःशेषपीतोज्झितसिन्धुराजः।
प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः॥६१॥
विन्ध्यस्येति ॥ विन्ध्यस्य नाम्नो महाद्रेः। तपनमार्गनिरोधाय वर्धमानस्येति शेषः । संस्तम्भयिता निवारयिता निःशेषं पीत उज्झितः पुनस्त्यक्तः सिन्धुराजः समुद्रो येन सोऽगस्त्योऽश्वमेधस्यावभृथे दीक्षान्ते कर्मणि ॥ “दीक्षान्तोऽवभृथो यज्ञः" इत्यमरः ॥ आर्द्रमूर्तेः । स्नातस्येत्यर्थः । यस्य पाण्ड्यस्य प्रीत्या स्नेहेन । न तु दाक्षिण्येन । सुस्नातं पृच्छतीति सौस्नातिकः । भवति ॥ पृच्छतौ मुस्नातादिभ्य इत्युपसंख्यानाट्टक् ॥
अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः।
पुरा जनस्थानविमर्दशङ्की संधाय लङ्काधिपतिः प्रतस्थे ॥६२॥
अस्त्रमिति । पुरा पूर्वं जनस्थानस्य खरालयस्य विमर्दशङ्की दृप्त उद्धतो लङ्काधिपती रावणो दुरापं दुर्लभमस्त्रं ब्रह्मशिरोनामकं हरादाप्तवता येन पाण्ड्येन संधाय । इन्द्रलोकावजयायेन्द्रलोकं जेतुं प्रतस्थे । इन्द्रविजयिनो रावणस्यापि विजेतेत्यर्थः॥
अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी ।
रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः॥६॥