पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १३५ )
षष्ठः सर्गः ।

 अनेनेति ॥ महाकुलीनेन महाकुले जातेन ॥“महाकुलादञ्खञौ" इति खञ्प्रत्ययः ॥ अनेन पाण्ड्येन पाणौ त्वदीये विधिवद्यथाशास्त्रं गृहीते सति गुर्वी गुरुः ॥ “वोतो गुणवचनात् ” इति ङीष् ॥ महीव रत्नैरनुविद्धो व्याप्तोऽर्णव एव मेखला यस्यास्तस्याः ॥ इदं विशेषणं मह्यामिन्दुमत्यां च योज्यम् ॥ दक्षिणस्या दिशः सपत्नी भव ॥ अनेन सपत्न्यन्तराभावो ध्वन्यते ॥

  ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु ।
  तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥ ६४ ॥

 ताम्बूलेति ॥ ताम्बूलवल्लीभिर्नागवल्लीभिः परिणद्धाः परिरब्धाः पूगाः क्रमुका यासु तासु ॥ “ताम्बूलवल्ली ताम्बूली नागवल्ल्यपि " इति । “घोण्टा तु पूगः क्रमुकः" इति चामरः ॥ एलालताभिरालिङ्गिताश्चन्दना मलयजा यासु तासु॥ "गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् " इत्यमरः ॥ तमालस्य तापिच्छस्य पत्राण्येवास्तरणानि यासु तासु ॥ “कालस्कन्धस्तमाल: स्यात्तापिच्छोऽपि" इत्यमरः॥ मलयस्थलीषु शश्वन्मुहुः सदा वा रन्तुं प्रसीदानुकूला भव ॥

  इन्दीवरश्यामतनुनृपोऽसौ खं रोचनागौरशरीरयष्टिः ।
  अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु॥६५॥

 इन्दीवरेति ॥ असौ नृप इन्दीवरश्यामतनुः । त्वं रोचना गोरोचनेव गौरी शरीरयष्टिर्यस्याः सा । ततस्तडित्तोयदयोर्विद्युन्मेघयोरिव वां युवयोर्योगः समागमोऽन्योन्यशोभायाः परिवृद्धयेऽस्तु ॥

  स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः।
  दिवाकरादर्शनबद्धकोशे न[१]क्षत्रनाथांशुरिवारविन्दे ॥६६ ॥

 स्वसुरिति ॥ विदर्भाधिपतेर्भोजस्य स्वसुरिन्दुमत्याश्चेतसि तदीयः सुनन्दासंबन्ध्युपदेशो वाक्यम् । दिवाकरस्यादर्शनेन बद्धकोशे मुकुलितेऽरविन्दे नक्षत्रनाथांशुश्चन्द्रकिरण इव । अन्तरमवकाशं न लेभे ।।

  संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा ।
  नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ ६७॥

 संचारिणीति ॥ पतिंवरा सेन्दुमती रात्रौ संचारिणी दीपशिखेव यं यं भूमिपालं व्यतीयायातीत्य गता स स भूमिपालः । स सर्व इत्यर्थः ॥"नित्यवीप्सयोः"


  1. तारापतेरंशुः.