पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १३६ )
रघुवंशे

इति वीप्सायां द्विवचनम् ॥ नरेन्द्रमार्गे राजपथेऽट्टाख्यो गृहभेद इव ॥ "स्यादट्टः क्षौममस्त्रियां " इत्यमरः ॥ विवर्णभावं विच्छायत्वम् । अट्टस्तु तमोट्टतत्वम् । प्रपेदे।।

  तस्यां रघोः सूनुरुपस्थितायां वृणीत मां[] नेति समाकुलोऽभूत् ।
  वामेतरः संशयमस्य बाहुः केयूरबन्धोछ्वसितैर्नुनोद ॥ ६८॥

 तस्यामिति ॥ तस्यामिन्दुमत्यामुपस्थितायामासन्नायां सत्यां रघोः सूनुरजो मां वृणीत न वेति समाकुलः संशयितोऽभूत् । अथास्याजस्य वामेतरो वामादितरो दक्षिणो बाहुः । केयूरं बध्यतेऽत्रेति केयूरबन्धोऽङ्गदस्थानम् । तस्योच्छ्वसितैः स्फुरणैः संशयं नुनोद ॥

  तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी।
  न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली ॥६९॥

 तमिति ॥ कुमारी । सर्वेष्ववयवेष्वनवद्यमदोषं तमजं प्राप्य । अन्योपगमाद्राजान्तरोपगमाद्व्यावर्तत निवृत्ता ॥ तथाहि । षट्पदाली भृङ्गावलिः ॥ प्रफुल्लतीति प्रफुल्लं विकसितम् । पुष्पितमित्यर्थः ॥ प्रपूर्वात्फुल्लतेः पचाद्यच् ॥ फलतेस्तु प्रफुल्तमिति पठितव्यम् । “अनुपसर्गात्-" इति निषेधात् ॥ इत्युभयथापि न कदाचिदनुपपत्तिरित्युक्तं प्राक् ॥ सहकारं चूतविशेषमेत्य ॥ “आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः" इत्यमरः ॥ वृक्षान्तरं न काङ्क्षति । न हि सर्वोत्कृष्टवस्तुलाभेऽपि वस्त्वन्तरस्याभिलाषः स्यादित्यर्थः ॥

  तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेक्ष्य ।
  प्रचक्रमे वक्तुमनुक्रमज्ञा सविस्तरं वाक्यमिदं सुनन्दा ॥ ७॥

 तस्मिन्निति ॥ तस्मिन्नजे समावेशिता संक्रामिता चित्तवृत्तिर्यया ताम् । इन्दोः प्रभेव प्रभा यस्यास्ताम् ॥ आह्लादकत्वादिन्दुसाम्यम् ॥ इन्दुमतीमवेक्ष्यानुक्रमज्ञा वाक्यपौर्वापर्याभिज्ञा सुनन्देदं वक्ष्यमाणं सविस्तरं सप्रपञ्चम् ॥ “प्रथने वावशब्दे" इति घञो निषेधात् “ऋदोरप्" इत्यप्पत्ययः ॥ “विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः" इत्यमरः ॥ वाक्यं वक्तुं प्रचक्रमे ।।

  इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् ।
  काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः७१

 इक्ष्वाक्विति ।। इक्ष्वाकोर्मनुपुत्रस्य वंश्यो वंशे भवः । नृपाणां ककुदं श्रेष्ठः॥-

"ककुच्च ककुदं श्रेष्ठे वृषांसे राजलक्ष्मणि" इति विश्वः॥ आहितलक्षण: प्रख्यात-


  1. मा.