पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १३७ )
षष्ठः सर्गः ।

गुणः ॥ "गुणैः प्रतीते तु कृतलक्षणाहितलक्षणौ" इत्यमरः ॥ ककुदि वृषांसे तिष्ठतीति ककुत्स्थ इति प्रसिद्धः कश्चिद्राजाभूत् । यतः ककुत्स्थादारभ्योन्नतेच्छा महाशयाः ॥ " महेच्छस्तु महाशयः" इत्यमरः ॥ उत्तरकोसलेन्द्रा राजानो दिलीपादयः श्लाघ्यं प्रशस्तम् । ककुत्स्थस्यापत्यं पुमान्काकुत्स्थ इति शब्दं संज्ञां दधति बिभ्रति ॥ तन्नामसंस्पर्शोऽपि वंशस्य कीर्तिकर इति भावः ॥ पुरा किल पुरंजयो नाम साक्षाद्भगवतो विष्णोरंशावतारः कश्चिदैवाको राजा देवैः सह समयवन्धेन देवासुरयुद्धे महोक्षरूपधारिणो महेन्द्रस्य ककुदि स्थित्वा पिनाकिलीलया निखिललमसुरकुलं निहत्य ककुत्स्थसंज्ञां लेभ इति पौराणिकी कथानुसंधेया ॥ वक्ष्यते चायमेवार्थ उत्तर श्लोके ॥

  महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः।
  चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः॥७२॥

 महेन्द्रमिति ॥ यः ककुत्स्थः संति युद्धे । महानुक्षा महोक्षः ॥ "अचतुर-" इत्यादिना निपातः ॥ तस्य रूपमिव रूपं यस्य तं महेन्द्रमास्थायारुह्य । अतएव प्राप्ता पिनाकिन ईश्वरस्य लीला येन स तथोक्तः सन्बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखा निवृत्तपत्ररचनाश्चकार । तद्भर्तृनसुरानवधीदित्यर्थः ॥ न हि विधवाः प्रसाध्यन्त इति भावः ॥

  ऐरावतास्फालनविश्लथं यः संघट्टयन्नङ्गदमङ्गदेन ।
  उपेयुषः स्वामपि मूर्तिमग्र्यामर्धासनं गोत्रभिदोऽ[१]धितष्ठौ ॥७३॥

 ऐरावतेति ॥ यः ककुत्स्थ ऐरावतस्य स्वर्गजस्यास्फालनेन ताडनेन विश्लथं शिथिलमङ्गदमैन्द्रमादेन स्वकीयेन संघट्टयन्संघर्षयन्स्वामय्यां श्रेष्ठां मूर्तिमुपेयुषो- ऽपि प्राप्तस्यापि गोत्रभिद इन्द्रस्यार्धमासनस्यार्धासनम् ॥ "अर्ध नपुंसकम्" इति समासः ॥ अधितष्ठावर्धािष्ठतवान् । स्थादिष्वभ्यासेन चाभ्यासस्येसभ्यासेन व्यवायेऽपि षत्वम् ॥ न केवलं महोक्षरूपधारिण एव तस्य ककुदमारुक्षत् । किंतु निजरूपधारिणोऽपीन्द्रस्यार्धासनमित्यपिशब्दार्थः । अथवा । अर्धासनमपीत्यपेरन्वयः॥

  जातःकुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः ।
  अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः॥७४॥

 जात इति ॥ उरुकीतिर्महायशाः कुलप्रदीपो वंशप्रदीपको दिलीपो नृपतिस्तस्य ककुत्स्थस्य कुले जातः किल । यो दिलीपः शक्राभ्यसूयाविनिवृत्तये । न त्वशक्त्येति भावः । एकेनोनाः शतं क्रतवो यस्य स एकोनशतक्रतुः । तस्य भावे

तत्त्वेऽतिष्ठत् । इन्द्रप्रीतये शततमं क्रतुमवशेषितवानित्यर्थः ।।


१८
 
  1. अधितस्थे.