पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १३९ )
षष्ठः सर्गः ।

न्ति" इति ॥ दम्या शिक्षणीयावस्थः । योऽजो गुर्वी भुवनस्य धुरं धुर्येण धुरंधुरेण चिरनिरूढेन पित्रा सदृशं तुल्यं यथा तथा बिभर्ति ॥ यथा कश्चिद्वत्सतरोऽपि - धुर्येण महोक्षेण समं वहतीत्युपमालंकारोध्वन्यते ॥ “दम्यवत्सतरौ समौ" इत्यमरः ।।

  कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः ।
  त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥७९॥

 कुलेनेति ॥ कुलेन कान्त्या लावण्येन नवेन वयसा यौवनेन विनयः प्रधानं येषां तैस्तैर्गुणैः श्रुतशीलादिभिश्चात्मनस्तुल्यं स्वानुरूपममुमजं त्वं वृणीष्व । किं बहुना । रत्नं काञ्चनेन समागच्छतु संगच्छताम् ॥ प्रार्थनायां लोट् ॥ रत्नकाञ्चनयोरिवात्यन्तानुरूपत्वाद्युवयोः समागमः प्रार्थ्यत इत्यर्थः ॥

  'ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या ।
  दृष्टया प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ।। ८०॥

 तत इति ॥ ततः सुनन्दावचनस्यावसानेऽन्ते नरेन्द्रकन्येन्दुमती लज्जा तनूकृत्य संकोच्य प्रसादेन मनःप्रसादेनामलया प्रसन्नया दृष्ट्या संवरणस्य सजा स्वयंवरणार्थ स्रजेव कुमारमजं प्रत्यग्रहीत्स्वीचकार । सम्यक्सानुरागमपश्यदित्यर्थः॥

  सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् ।
  रोमाञ्चलक्ष्येण सगात्रयष्टिं भित्त्वा निराकामदरालकेश्याः॥८१

 सति ॥ सा कुमारी यूनि तस्मिन्नजेऽभिलाषवन्धमनुरागग्रन्थिं शालीनतयाधृष्टतया ॥" स्यादधृष्टस्तुशालीनः इत्यमरः ।। “शालीनकौपीने अधृष्टकार्ययोः" इति निपातः ॥ वक्तुं न शशाक । तथाप्यरालकेश्याः सोऽभिलाषबन्धो रोमाञ्चलक्ष्येण पुलकव्याजेन ॥ “ व्याजोऽपदेशो लक्ष्यं च इत्यमरः ॥ गात्रयष्टिं भित्त्वा निराक्रामत् ॥ सात्त्विकाविर्भावलिङ्गेन प्रकाशित इत्यर्थः ॥

  तथागतायां परिहासपूर्वं सख्यां सखी वे[]त्रभृदाबभाषे ।
  आर्ये व्रजामोऽन्यत इत्यथै[]नां वधूरसूयाकुटिलं ददर्श ॥ ८२॥

 तथेति ॥ सख्यामिन्दुमत्यां तथागतायां तथाभूतायाम् । दृष्टानुरागायां सत्यामित्यर्थः । सखी सहचरी ॥ " सख्यशिश्वीति भाषायाम्" इति निपातनान्ङीष् ॥ वेत्रभुत्सुनन्दा । हे आर्ये पूज्ये, अन्यतोऽन्यं प्रति व्रजाम इति परिहासपूर्वमावभाषे । अथ वधूरिन्दुमत्येनां सुनन्दामसूयया रोषेण कुटिलं ददर्श । अन्यागमनस्यासह्यत्वादित्यर्थः ॥

  सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करोपमोरूः ।
  आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् ।। ८३॥


  1. वेत्रधरा.
  2. एनम्.