पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १४२ )
रघुवंशे

छाया ध्वजच्छायम् ॥ "छाया बाहुल्ये" इति नपुंसकत्वम् ॥ तेन निवारित उष्ण आतपो यत्र तं तथा राजमार्गं स वरो वोढा वध्वा सह पाप विवेश ॥

  ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु ।
  बभूवुरित्थं पु[१]रसुन्दरीणां त्य[२]क्तान्यकार्याणि विचेष्टितानि ॥५॥

 तत इति ॥ ततस्तदनन्तरं चामीकरजालवत्सु सौवर्णगवाक्षयुक्तेषु सौधेषु तस्याजस्यालोकने तत्पराणामासक्तानां पुरसुन्दरीणामित्थं वक्ष्यमाणप्रकाराणि सक्तान्यन्यकार्याणि केशबन्धनादीनि येषु तानि विचेष्टितानि व्यापाराः ॥ नपुंसके भावे क्तः॥ बभूवुः॥

 तान्येवाह पञ्चभिः श्लोकैः-

  आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवा[३]न्तमाल्यः ।
  बन्ध्दुं न संभावित एव तावत्करेण रुद्धोऽपि च[४] केशपाशः ॥६॥

 आलोकेति ॥ सहसालोकमार्गं गवाक्षपथं व्रजन्त्या कयाचित्कामिन्योद्वेष्टनवान्तमाल्यः । उद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनः । अत एव वान्तमाल्यो बन्धविश्लेषेणोद्गीर्णमाल्यः । करेण रुद्धो गृहीतोऽपि च केशपाशः केशकलापः॥ "पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे इत्यमरः ॥ तावदालोकमार्गप्राप्तिपर्यन्तं बन्द्धं बन्धनार्थ न संभावितो न चिन्तित एव ।।

  प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव ।
  उत्सृष्टलीलागतिरा गवाक्षादलक्तकाङ्कां पदवीं ततान ॥७॥

 प्रसाधिकेति ॥ काचित् । प्रसाधिकयालंकर्त्र्यालम्बितं रञ्जनार्थं धृतं द्रवरागमेवार्द्रालक्तकमेव ॥ अग्रश्चासौ पादश्चेत्यग्रपाद इति कर्मधारयसमासः ॥ हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदाभ्याम्" इति वामनः ॥ तमाक्षिप्याकृप्य । उत्सृष्टलीलागतिस्त्यक्तमन्दगमना सती । आ गवाक्षाद्गवाक्षपर्यन्तं पदवीं पन्थानमलक्तकाङ्कां लाक्षारागचिह्नां ततान विस्तारयामास ।

  विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वश्चितवामनेत्रा।
  [५]थैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ।। ८॥

 विलोचनमिति ॥ अपरा स्त्री दक्षिणं विलोचनमञ्जनेन संभाव्यालंकृत्य । संभ्रमादिति भावः । तद्वञ्चितं तेनाञ्जनेन वर्जितं वामनेत्रं यस्याः सा सती तथैव शलाकामञ्जनतूलिकां वहन्ती सती वातायनसंनिकर्षं गवाक्षसमीपं ययौ । दक्षिणग्रहणं

संभ्रमाद्व्युत्क्रमकरणद्योतनार्थम् । “सव्यं हि पूर्वं मनुष्या अञ्जते" इति श्रुतेः॥


  1. सुरसुन्दरीणाम्.
  2. मुक्तान्यकार्याणि.
  3. वीतमाल्यः.
  4. हि.
  5. प्रासाद.