पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १४३ )
सप्तमः सर्गः ।

  जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
  नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः॥९॥

 जालेति ॥ अन्या स्त्री जालान्तरप्रेषितदृष्टिगवाक्षमध्यप्रेरितदृष्टिः सती प्रस्थानेन गमनेन भिन्नां त्रुटितां नीवीं वसनग्रन्थिम् ॥ "नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि" इति विश्वः ॥ न बबन्ध । किंतु नाभिप्रविष्टाभरणानां कङ्कणादीनां प्रभा यस्य तेन । प्रभैव नाभेराभरणमभूदिति भावः । हस्तेन वासोऽवलम्ब्य गृहीत्वा तस्थौ ॥

  [१]र्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दु[२]निमिते गलन्ती ।
  कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ १०॥

 अर्धति ।। सत्वरमुत्थितायाः कस्याश्चिदर्धाञ्चिता मणिभिरर्धगुम्फिता दुर्निमित्ते संभ्रमाहुरुत्क्षिप्ते ॥ “डुमिप्रक्षेपणे" इति धातोः कर्मणि क्तः॥ पदे पदे प्रतिपदम् ॥ वीप्सायां द्विर्भावः ॥ गलन्ती गलद्रत्ना सती रशना मेखला तदानीं गमनसमयेऽङ्गुष्ठमूलेऽर्पितं सूत्रमेव शेषो यस्याः सासीत् ॥

  तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
  विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥ ११॥

 तासामिति ॥ तदानीं सान्द्रकुतूहलानां तासां स्त्रीणामासवगन्धो गर्भे येषां तैः । विलोलानि नेत्राण्येव भ्रमरा येषां तैः। मुखैर्व्याप्तान्तराश्छन्नावकाशा गवाक्षा: सहस्रपत्राभरणा इव कमलालंकृता इव ॥ “सहस्रपत्रं कमलम्" इत्यमरः ॥आसन्।

  ता राघवं दृष्टिभिरापिबन्त्यो नार्यों न जग्मुर्विषयान्तराणि ।
  तथाहि शेषेन्द्रि[३]यवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥१२॥

 ता इति ॥ ता नार्यो रघोरपत्यं राघवमजम् ॥" तस्यापत्यम्" इत्यण्प्रत्ययः ॥ दृष्टिभिरापिबन्त्योऽतितृष्णया पश्यन्त्यो विषयान्तराण्यन्यान्विषयान्न जग्मुः । न विविदुरित्यर्थः । तथाहि । आसां नारीणां शेषेन्द्रियवृत्तिश्चक्षुर्व्यतिरिक्तश्रोत्रादीन्द्रियव्यापारः सर्वात्मना स्वरूपकार्त्स्न्येन चक्षुः प्रविष्टेव ॥ श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण ग्रहणाशक्तेश्चक्षुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु । अन्यथा स्वस्वविषयाधिगमः किं न स्यादिति भावः ॥

१०-११ श्लोकयोमध्ये क्षेपकोऽयं दृश्यते--

स्तनंधयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती ।
संप्रस्नुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित्पयसा गवाक्षाम् ॥



  1. अर्धाचिता ; अर्धार्चिता.
  2. दुर्नमिते.
  3. सन्द्रिय.