पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १४४ )
रघुवंशे

 " शृण्वन्कथाः श्रोत्रसुखाः कुमारः (७।१६) इति वक्ष्यति । ताः कथयति "स्थाने" इत्यादिभिस्त्रिभिः-

  स्थाने वृता भूपतिभिः प[१]रोक्षैः स्वयंवरं साधुममंस्त भोज्या।
  पद्मेव नारायणमन्यथा[२]सौ लभेत कान्तं कथमात्मतुल्यम् ॥१३॥

 स्थान इति ॥ भोज्येन्दुमती परोक्षैरदृष्टैर्भूपतिभिर्वृता ममैवेयमिति प्रार्थितापि स्वयंवरमेव साधु हितममंस्त मेने । न तु परोक्षमेव कंचित्पार्थकं वव्रे । स्थाने युक्तमेतत् ॥ “युक्ते द्वे सांप्रतं स्थाने" इत्यमरः ॥ कुतः । अन्यथा स्वयंवराभावेऽसाविन्दुमती । पद्यमस्या अस्तीति पद्मा लक्ष्मीः ॥ " अर्शआदिभ्योऽच्" इत्यच्प्रत्ययः ॥ नारायणमिव । आत्मतुल्यं स्वानुरूपं कान्तं पतिं कथं लभेत । न लभेतैव । सदसद्विवेकासौकर्यादिति भावः ॥

  परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
  अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वि[३]तथोऽभविष्यत् ॥

 परस्परेणेति ॥ स्पृहणीयशोभं सर्वाशास्यसौन्दर्यमिदं द्वन्द्व मिथुनम् ॥ “द्वन्द्वं रहस्य-" इत्यादिना निपातः ॥ परस्परेण नायोजयिष्यच्चेन्न योजयेद्यदि । तर्हि प्रजानां पत्युविधातुरस्मिन्द्वये द्वन्द्वे रूपविधानयत्नः सौन्दर्यनिर्माणप्रयासो वितथोविफलोऽभविष्यत् । एतादृशानुरूपस्त्रीपुंसान्तराभावादिति भावः ॥"लिङ्निमित्ते लृङ्क्रियातिपत्तौ" इति लुङ् ॥ "कुतश्चित्कारणवैगुण्यात्क्रियाया अनभिनिष्पत्तिः क्रियातिपत्तिः" इति वृत्तिकारः॥

  [४]तिस्मरौ नूनमिम[५]विभूतां राज्ञां सहस्रेषु तथाहि बाला।
  [६]तेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ॥१५॥

 रतीति ॥ रतिस्मरौ यौ । नित्यसहचरावित्यभिप्रायः । नूनं तावेवेयं चायं चेमौ दंपती अभूताम् । एतद्रूपेणोत्पन्नौ । कुतः । तथाहि । इयं वाला राज्ञां स- हस्रेषु राजसहस्रमध्ये । सत्यपि व्यत्यासकारण इति भावः । आत्मप्रतिरूपं स्वतुल्यमेव ॥ "तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः" इति दण्डी ॥ गता प्राप्ता ॥ तदपि कथं जातमत आह-हि यस्मान्मनो जन्मान्तरसंगतिज्ञं भवति । तदेवेदमिति प्रत्यभिज्ञाभावेऽपि वासनाविशेषवशादनुभूतार्थेषु मनःप्रवृत्तिरस्तीत्युक्तम् ॥ जन्मान्तरसाहचर्यमेवात्र प्रवर्तकमिति भावः ॥

  इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन्कथाः श्रोत्रसुखाः कुमारः।
  उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥१६॥


  1. परोक्षे.
  2. आर्या.
  3. विफलः.
  4. जातिस्मरौ.
  5. इवावभूताम्.
  6. याता.