पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १४५ )
सप्तमः सर्गः ।

इतीति ॥ इति "स्थाने वृता" (७/१३) इत्याद्युक्तप्रकारेण पौरवधूमुखेभ्य उद्गता उत्पन्नाः श्रोत्रयोः सुखा मधुराः॥ सुखशब्दो विशेष्यनिघ्नः॥ “पापपुण्यसुखादि च" इत्यमरः॥ कथा गिरः शृण्वन्कुमारोऽजो मङ्गलसंविधाभिर्मङ्गलरचनाभिरुद्भासितं शोभितं संबन्धिनः कन्यादायिनः सम गृहं समाससाद पाप ।।

  ततोऽवती[१]र्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः।
  वैदर्भनिर्दिष्टम[२]थो विवेश नारीमनांसीव चतुष्कमन्तः॥१७॥

 तत इति ॥ ततोऽनन्तरं करेणुकाया हस्तिन्याः सकाशादाशु शीघ्रमवतीर्य । कामरूपेश्वर दत्तो हस्तो येन सोऽजः । अथोऽनन्तरं वैदर्भेण निर्दिष्टं प्रदर्शितमन्तचतुष्कं चत्वरम् । नारीणां मनांसीव । विवेश ॥

  महार्हसिंहासनसंस्थितोऽसौ सरत्नमर्घ्यं म[३]धुपर्कमिश्रम् ।
  भोजोपनीतं च दुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षः ॥१०॥

 महार्हति ।। महाहसिंहासने संस्थितोऽसावजः । भोजेनोपनीतम् । रत्नैः सहितं सरत्नम् । मधुपर्कमिश्रमर्घ्यं पूजासाधनद्रव्यं दुकूलयोः क्षोमयोर्युग्मं च । वनिताकटाक्षैरन्यस्त्रीणामपाङ्गदर्शनैः सार्धम् । जग्राह गृहीतवान् ॥

  दुकूलवासाः स वधूसमीपं निन्ये विनीतैरे[४]वरोधरक्षैः ।
  वेलासकाशं स्फुटफेनराजिनवैरुदन्वानिव चन्द्रपादैः॥१९॥

 दुकूलेति ॥ दुकूलवासाः सोऽजः । विनीतैर्नम्ररवरोधरक्षैरन्तःपुराधिकृतैर्वधूसमीपं निन्ये । तत्र दृष्टान्तः-स्फुटफेनराजिरुदन्वान्समुद्रो नवैर्नूतनैश्चन्द्रपादैश्चन्द्रकिरणैर्वेलायाः सकाशं समीपमिव ।। पूर्णदृष्टान्तोऽयम् ।।

  तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः ।
  तमेव चाधाय विवाहसाक्ष्ये वधूवरौ संग[५]मयांचकार ॥ २०॥

 तत्रेति ॥ तत्र सद्मन्यर्चितः पूजितोऽग्निकल्पोऽग्नितुल्यो भोजपत्र्भोजदेशाधीश्वरस्य पुरोधाः पुरोहितः ॥ “पुरोधास्तु पुरोहितः" इसमरः ॥ आज्यादिभिर्द्रव्यैरग्निं हुत्वा तमेव चाग्निं विवाहसाक्ष्य आधाय । साक्षिणं च कृत्वेत्यर्थः । वधूवरौ संगमयांचकार योजयामास ॥

  हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां च[६]कासे ।
  अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥ २१॥

 हस्तेनेति ॥ स राजसूनुर्हस्तेन स्वकीयेन वध्वा हस्तं परिगृह्य । अनन्तरायाः


१९
 
  1. अथ.
  2. अजः.
  3. मधुमच्च गव्यम्.
  4. अवरोधरक्ष्यैः
  5. संगमयांबभूव.
  6. बभासे.