पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १४६ )
रघुवंशे

संनिहिताया अशोकलतायाः प्रवालं पल्लवं प्रतिपल्लवेन स्वकीयेन पाप्य चूत आम्र इव । सुतरां चकासे॥

  [१]सीद्वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी ।
  [२]स्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥२२॥

 आसीदिति ॥ वरः कण्टकितः पुलकितः प्रकोष्ठो यस्य स आसीत् ॥ “सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः" इत्यमरः ॥ कुमारी स्विन्नालिः संववृते बभूव ॥ अत्रोत्प्रेक्षते--तस्मिन्ये मिथुने तत्क्षणमात्मवृत्तिः सात्विकोदयरूपा वृत्तिर्मनोभवेन कामेन समं विभक्तेव पृथकृतेव ॥ प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणिस्पर्शकृतत्वमुत्प्रेक्ष्यते ॥ अत्र वात्स्यायनः- कन्यातु प्रथमसमागमे स्विन्नाङ्गुलिः स्विन्नमुखी च भवति । पुरुषस्तु रोमाञ्चितो भवति ।एभिरनयोर्भावं परीक्षेत" इति ॥ स्त्रीपुरुषयोः स्वेदरोमाञ्चाभिधानं सात्त्विकमात्रोपलक्षणम् । न तु प्रतिनियमो विवक्षितः । एभिरिति बहुवचनसामर्थ्यात् । एवं सति कुमारसंभवे- “रोमोद्गमः पादुरभूदुमायाः स्विन्नाङ्गलिः पुंगवकेतुरासीत्" (७।७७) इति व्युत्क्रमवचनं न दोषायेति ॥ "वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य" इत्यपरार्धस्य पाठान्तरे व्याख्यानान्तरम्-पाणिसमागमेन पाण्योः संस्पर्शेन ॥ कर्त्रा ॥ तयोर्वधूवरयोर्मनोभवस्य वृत्तिः स्थितिः समं विभक्तेव । समीकृतेवेत्यर्थः॥

  [३]योर[४]पाङ्गप्रतिसारितानि क्रियासमापत्तिनि[५]वर्तितानि ।
  ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि॥२३

 तयोरिति ॥ अपाङ्गेषु नेत्रप्रान्तेषु प्रतिसारितानि प्रवर्तितानि क्रिययोर्निरीक्षणलक्षणयोः समापत्त्या यदृच्छासंगत्या निवर्तितानि प्रत्याकृष्टान्यन्यान्यस्मिल्लोलानि सतृष्णानि ॥ “लोलश्चलसतृष्णयोः" इत्यमरः ॥ तयोर्दम्पत्योर्विलोचनानि दृष्टयो मनोज्ञां रम्यां ह्रिया निमित्तेन यन्त्रणां संकोचमानशिरे प्रापुः॥

  प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे ।
 मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥ २४ ॥

 प्रदक्षिणेति ॥ तन्मिथुनमुदर्चिष उन्नतज्वालस्य कृशानोर्वह्नेः प्रदक्षिणप्रक्रमणात्मदक्षिणीकरणात् । मेरोरुपान्तेषु समीपेषु वर्तमानमावर्तमानम् । मेरुं प्रदक्षिणीकुर्वदित्यर्थः । अन्योन्यसंसक्तं परस्परसंगतम् ।। मिथुनस्याप्येतद्विशेषणम् ॥ अहश्च

त्रियामा चाहस्त्रियामं रात्रिंदिवमिव ।। समाहारे द्वन्द्वैकवद्भावः ॥ चकासे दिदीपे॥


  1. अभूत्.
  2. अस्मिन्.
  3. तयोः समापत्तिषु कातराणि किंचिद्व्यवस्थापितसंहतानि.
  4. उपान्त.
  5. विवर्तितानि.