नितम्बयुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन ।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ ॥२५॥
नितम्बेति ॥ नितम्बेन गुर्व्यलध्वी ॥ "दुर्धरालघुनोगुर्वी" इति शाश्वतः॥ विधातृप्रतिमेन ब्रह्मतुल्येन तेन गुरुणा याजकेन प्रयुक्ता जुहुधीति नियुक्ता । मत्तचकोरस्येव नेत्रे यस्याः सा लज्जावती सा वधूरग्नौ लाजविसर्गं चकार ॥
हविरिति ॥ हविष आज्यादेः शमीपल्लवानां लाजानां च गन्धोऽस्यास्तीति हविःशमीपल्लवलाजगन्धी ॥ “ शमीपल्लमिश्रान्ल्लाजानञ्जलिना वपति" इति कात्यायनः ॥ पुण्यो धूमः कृशानोः पावकादुदियायोद्धृतः ॥ कपोलयोः संसर्पिणी प्रसरणशीला शिखा यस्य स तथोक्तः स धूमस्तस्या वध्वा मुहूर्तं कर्णोत्पलतां कर्णाभरणतां प्रपेदे॥
तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरम् ।
वधूमुखं पाटलगण्डलेखमाचारधूमग्रहणाद्बभूव ॥ २७ ।।
तदिति ॥ तद्वधूमुखमाचारेण प्राप्ताद्धूमग्रहणात् । अञ्जनस्य क्लेदोऽअनक्लेदः। अञ्जनमिश्रवाष्पोदकमित्यर्थः । तेन समाकुलाक्षम् । प्रम्लानो बीजाङ्कुरो यवाङ्कुर एव कर्णपूरोऽवतंसो यस्य तत्पाटलगण्डलेखमरुणगण्डस्थलं च बभूव ।।
तौ स्नातकैर्बन्धुमता च राज्ञा पुरन्ध्रिभिश्च क्रमशः प्रयुक्तम् ।
कन्याकुमारौ कनकासनस्थावार्द्राक्षतारोपणमन्वभूताम् ॥२८॥
ताविति ॥ कनकासनस्थौ तौ कन्याकुमारौ स्नातकैर्गृहस्थविशेषैः ॥ “ स्नातकस्त्वाप्लुतो व्रती" इत्यमरः ॥ बन्धुमता । बन्धुपुरःसरेणेत्यर्थः । राज्ञा च पुरंध्रिभिः पतिपुत्रवतीभिर्नारीभिश्च क्रमशः प्रयुक्तं स्नातकादीनां पूर्वपूर्ववैशिष्ट्यात्क्रमेण कृतमार्द्राक्षतानामारोपणमन्वभूतामनुभूतवन्तौ ।।
इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा।
महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधिश्रीः ॥ २९ ॥
इतीति ॥ अधिश्रीरधिकसंपन्नो भोजकुलप्रदीपः स राजा । इति स्वसुरिन्दुमत्यः पाणिग्रहणं विवाहं संपाद्य कारयित्वा। महीपतीनां राज्ञां पृथगेकैकशोऽर्हणार्थं
पूजार्थमधिकृतानधिकारिणः समादिदेशाज्ञापयामास ।